________________
96
जयन्तिका
भोः ! कपिजल! स्नापयित्वा तां शिलातलनिषण्णां बालिका सत्वरमानय मत्सकाशमिति । स तु कपिजलो मदुपकंठमासाद्य हृद्यया गिरा वत्से ! कुलपतिरस्माकं समाह्वयति भवतीम् । तदुत्तिष्ठ स्नात्वा च सरोवरेऽस्मिन्सत्वग्मायाहि इति न्यवेदयत् । ततस्तमहं तात ! कस्ते कुलपतिः तस्य च किं तत्पूततमं नाम । दयया दर्शय तं महात्मानम् । द्रष्टुकामास्मीत्यपृच्छम् । पृष्टश्च स कपिजलो यस्तेजसा सवितारं धर्मेण वैवस्वतं तपसा तामरसासनं शांत्या तारापतिं कृपया पद्मनाभं ज्ञानेन सुराचार्य गांभीर्येण सागरं पारिशुद्धयेन क्षीरोदं दाढर्थेन हेमाद्रिं समतिक्रांतवान् । यश्च यदा यदाज्ञापयति कुलपतिरिति निभृतगात्रैराश्रितप्रह्वभावैस्तन्मुखकमलदत्तदृष्टिभिस्तपोधनैरुपास्यमानः प्रकाशते । यश्च स्थविरः परिशुद्धात्मानमेवमेव शिरसि करोतीति सूचयद्भिरिव धवलतरैः केशपाशैः परिष्कृतोत्तमांगः । यश्चांतस्संपूर्णतया रंध्रदेशाद्वहिनिस्सृतैस्सत्वगुणैरिव विशदरोमनिकरैराच्छादितशरीरः । यश्च संसृतिकांतारस्य दावानलः । यस्माद्भीतभीतः कंदर्पोऽपि त्यक्तदर्पः तिरोहितशरोरो वर्तते । यस्य नामग्रहणेन कलिरपि सुदूरं धावति । यश्च विधुतुद इवासकृदापीतसोमः । यश्व धर्मस्य वेदितापि कुशासनः । मोक्षार्थ्यपि अक्षगणनासक्तः । एको त्तमांगोऽपि सप्तोत्तमांगः । यश्च तपनीयतपनतनूनपात्तेजःपुंजैरिव निर्मितः। यस्य च दिवौकसोऽपि वचश्श्रवणं तपःफलं कटाक्षमपि महानुग्रहं मन्वते । यश्च त्रय्यास्संकेतभूमिः । येन च सकलान्यपि शास्त्राणि परिशुद्धतामभजन् । यश्च प्रयतेन दीर्घसत्रनाना पावयति जगदखिलमपि । सः एवास्माकं कुलपतिरिति दर्शयामास तम् ।
तदनु तस्य दीर्घसत्रस्य मनसीवातिनिर्मले स्वभाव इव गंभीरे ध्यानइवात्यायते कर्मणीवावदाते वन इव तापहरे कर इव कुशपवित्रे तस्मिन्सरोवरे स्नात्वा परिधाय च कपिंजलदत्तं परिधानं समासाद्य च कुलपतिसन्निधिं तच्चरणसरसिजयो पतम् । तदनंतरमितरदुर्लभस्पर्शाभ्यां