________________
207
पञ्चमलहरी विलम्बः । प्रथमं तावत्प्राथमिकी मदेकजोवितामंबां वरमालिनोमवलोक्य निवेद्य च वृत्तं मदुदन्तं समाश्वास्य च, तदनु ततः प्रस्थितः जननी रत्नचूडां पितरं वज्रबाहुं च द्रष्टकामोऽस्मि। किंच वञ्चितपितृका जयंतिकापि त्वरयति निजपितृदिदृक्षया गमनाय माम् । तदादिश्य भटान्मद्वचनादागमिष्यति श्व एव भवत्पुत्र इति प्रेषय प्रथमं वैजयन्तोसमलंकृतां वैजयन्तीमिति। एवमुक्तस्तु स सुकेशस्सविनयं देव ! कालमेतावन्तं भवतेहानुभूता दुःखपरंपरा। न हि सुखगन्धलेशोऽपि। तदिह कतिचिदिव दिनानि सुसुखं वसता देवेनास्माकं मनसि साहित्यमापादनोयमित्यभ्यर्थयामास।
निशम्य सुकेशाभ्यर्थनां जोवसेनोऽयमवोचत् । नायमवसरो भवदभ्यर्थनानिर्वहणाय । अस्मन्जननी वरमालिनी मृगयानुयातं मां परिजनमुखादवकर्ण्य तदनु प्रचलितमतिविस्मयावहं मचरितं, कथंकथमपि मदिदृक्षया भवेद्धृतप्राणा । अहमपि कदा वा द्रक्ष्यामि तामंबामिति त्वराविशिष्टोऽस्मि। अतो न सुखायते स्थितिरत्र मे। किञ्च दारुणनिशाचरनिशारणाय कांतारं प्रति प्रस्थितस्य तावदेकाकिनो मम कापि वार्ता नैव याता वज्रबाहुश्रवणसरणिम् । तत्प्रबलमनुचिंत्य यातुधानं विधाय च मनसि तेन मां निषूदितं, दुःखितेन वज्रबाहुना किं वा व्यवसितमिति न जाने। पुत्रवत्सला सा तु रत्नचूडा मद्विरहजरितहृदया प्राणिति वा न वा ? तदनवरतमपि मे धावति मनस्तत्रैव । अतो न सुखायते स्थितिरत्रास्य मे। तत्प्रेषय त्वरिततरं मदागमननिवेदनाय भटान्वरमालिनीसकाशमिति । एवमनुज्ञातश्च स सुकेशो निरर्थकाभ्यर्थनः प्राहिणोत्वरितगामिभिः वाजिभिः पटुतरान्भटानरिभोकराम् । रविरपि भटप्रधावितानां तुरगाणां विजिगोषयेव स्पर्धाभरप्रधावितनिजवाहः परिश्रांतश्च गमनखेदादिव अरुणतरो विश्रांतिसुखलिप्सयेवोपसंहृतरश्मिनिकरः सिषेवे चरमगिरिसानुदेशम् ।