________________
पञ्चमलहरी
171
क्रोशमिव सूर्यातपपरिजिहीर्षया तमालतस्यच्छायशीतले शिलातले निषण्ण धृतसांद्रनीलचेलचण्डातकं भुजशिखरकृतासितकंबलं परिगृहीतशरोरमिव मौढ्यं ग्राम्यवृत्तिव्यंजकेन वर्णैकलोभनोयेन वन्यप्रसूनपुंजेन परिष्कृताल्पचूडमातपपर्यटनासितशरीरतया स्वेदबिंदुसंदोहदंतुरिततया च कुलपटलविच्छुरितमिव तमालकं विविधवर्णतया क्षितितलसमास्तीर्णेन चित्रकम्बलेनेव तरुशिखरनिपातितपत्रपटलचर्वणैकताने नाजकेन पीनोनीभिः द्रोणदुघाभिः वृषभमंडलपरिमंडिताभिस्सौरभेयोभिश्च परिवृतमासृक्कविवृतवदनकुहरेण शशिकलानुकारिणोभिः दंष्ट्राभिरतिभयानकेन बहिर्निस्सृतदीर्घलम्बमानशश्वन्निस्सर-ज्जलबिंदुदन्तुराग्रारुणजिह्वापल्लवा - वेद्यमानातप-संतापेन दरनिमीलितलोचनेन स्थूलस्थूलं निश्वसता मेचकमसृणकायेन निषण्णेन शुनकेन सनाथपार्श्वं रजतवलयालंकृतमणिबन्धं वेणुपाणिं दूरीकृतस्नानतया धूलिधूसरितं पुरुहूतमिवानेकसुरभिसन्तानामोदितं वृषभमिव मनोज्ञककुदं रसातलमिव कंबलपरिष्कृतं वर्षादिवसमिव घनमलिनांबरं वनप्रचारं च नरपतिमिव दंडायत्तोकृतवृषं गोपालं द्वादशहायनदेशोयं वृषलबालकं ददृशुः ।
दृष्ट्वा चाहो ! सौन्दर्यमस्य निष्फला खलु । कानने चन्द्रिकेव तावदस्मिन्सुन्दरता । सलक्ष्मीकं चक्षुरस्य पुंडरीकडंबरापहारि । हंताजानुभुजो वृषलबालोऽप्ययं स्वभाव गम्भीराकृतिरत सीकुसुमासिततनुकांतिस्स्मारयति नंदकुमारम् । धन्यः खल्वस्य पिता । धिगस्य जननीं कठिनहृदयाम्। या च समाश्लेषमात्रेणापि म्लानतामुपयांतं सुमसुकुमारशरीरमेनं कालयति धेनुसमवनायातपे । हन्तेति परस्परं व्याहरतः तमुपसृत्य सर्वेऽपि तत्करतलविलसन्मुरलीशिखरलंबमानां माणिक्यमालां ददृशुः । दृष्ट्वा च मालां प्रमोदसंभृतहृदयेषु विस्मृतक्षुत्पिपासादिक्लेशेषु भटेष्वेकस्सरभसं तदुपकंठमासाद्य तामाच्छिद्य च जग्राह । तत्क्षणमेव चकितचेतसि कंपमानगात्रे हन्तांबेति रुदति तस्मिन्बालके कश्चनानुकंपया समाश्वास्य तं सांत्वोक्तिभिब्रूहि वत्स ! क्व वा केनोपायेन कीदृशप्रयत्वेन