________________
जयन्तिका
वामनेन धवलारुणकरवीरकुसुमगुंभनव्यग्रकंपमानांगुलिपाणिना सप्ततिवत्सरदेशीयेनाजानु-विरचित-धूमकलुषितदाडिम- कुसुमसवर्णचोरांबरकच्छेन मलिनतरस्विन्नश्वेतमृत्तिकोर्ध्वपुंड्रेन मंडितमसृणासितललाटफलकेन गर्भगृहद्वारदेशनिषण्णेन देवलकेनोपशोभमानं जरद्वृषलकृतपृथुलकुटिलरंगवल्लीरेखातरंगालंकृतांकणं देवालयमपश्यताम् !
1
दृष्ट्वा चांतः प्रविश्य किमिदमतर्कितराजागमनमिति सविस्मयं विचित्याभ्युद्गतेन चकितचकितेन तेन देवलकेन ससंभ्रमं समुद्घाट्य तिरस्करिणीं संदर्शितं राजताभरणराजितं नीराजितं च जनार्दनं प्रणम्य समर्प्य च दक्षिणां प्रदक्षिणमार्गेण प्रचलंत्यौ देव ! भवादृशैरेव प्रभुप्रकांडैरवेक्षणोयमिदं जीर्णं मंदिरम् । भगवतो वसनमेकमपि नैव दृढतरम् । किं तु पटच्चरम् । वाहनानि प्रतीकहोनानि । पक्षीशस्य क्षुभितं पक्षयुगम् । प्रभंजनसुतस्य ध्वस्तो हस्तः । वारणस्य चरणं सव्रणम् । हयस्य क्षतमक्षि | मरालस्य खंडितं तुंडम् । कण्ठीरवस्य कुंठितः कंठः । नैव दीपस्य तैलमपि । निवेदनविहितस्तंडुलोऽपि खंडितः । क्रमेण पतति तत्र तत्र भित्तिः । इति सप्रश्रयं बद्धांजलिपुटं निवेदयता किमपि विवक्षया सरभसमन्वागच्छन्तं तं देवालयपालकं जरदूषलं प्रचालितेन पाणिनैव निवारयता तेनैव देवलकेनानुगम्यमाने सोपानपरंपरामवरुह्य भवतु पश्यामः इति तं देवलकं संप्रेष्य सैंधवाधिरूढे सत्वरं पुरं प्रविश्य जग्मतुस्यौधाभ्यन्तरम् ।
170
तदनु सा जयंतिका समधिगततापस्यनुमतिः पटुतरान्कतिपयभटानभिधाय मालालक्षणं पञ्चषेभ्यो दिवसेभ्यः युष्माभिरन्विष्य कथमपि मालापत्र साकमानेतव्या माला । अथवा यदि कापि निपतितोपलब्धा तदा तामेकामेवानयंतु भवत इति प्राहिणोद्विपिनं तदेव यत्र पर्यटितं पूर्वेद्युः । प्रस्थितास्ते तु भटाः कांतारे तत्र तत्र दिनत्रयमन्विष्य मालामलब्धा च खिन्नमानसाः कांतारसंचारेण चतुर्थेऽहनि क्षुत्पीडासहिष्णवो बुभुक्षया गव्यूतिदूरवर्तिनं घोषमालोक्य तदभिमुखं प्रतस्थिरे । गत्वा च