________________
चतुर्थलहरी
तेष्वेकतमं तेजोविशेषदेदीप्यमानमतिगम्भीर प्रकृतिं सौन्दर्यलक्ष्म्या विहारस्थानं रतिव्यथानिवारणाय शंकर भीतिशंकया नृपालकुमारतामापन्नं शंबरारिमिव राजकुमारमवलोक्य प्रसृमरस्मरवैश्वानरज्वालया भस्मसात्कृतहृदयतयेव गलितत्रपा कोऽयमिति निजहृदयनिर्विशेषां प्रियसखीं मरालसेनामप्राक्षीत् ।
पृष्टा च सा. मरालसेना समवगम्य हृदयमस्याः परिहासाय किमप्यजानन्तीव तमेकमंतरान्यमन्यं नृपकुमारं प्रदर्शयन्ती तस्य तस्य च नामावेदयामास । तदानीं परिकुपितया तया जयंतिकया तं सर्वमपि निराकृत्य मन्युभारान्नरपतिदुहिता भ्रुकुटितभ्रूलता सखीमुपालभमाना मानातिरेकात्सरभसमन्यतो निरगात् ! तादृशीं तामवलोक्य मरालसेना हन्त ! सत्यमेव कुपितेयम् । किं करोमीति सरभसमुपसृत्य सपादपतनं समंदस्मितं सविनयं च क्षंतव्यमागो मदोयमेकवार मिति सविभ्रमं तत्करपल्लवमवलंब्य सानुनयं चित्रोपकंठमानीय वक्तुमारभत । ननु सखि ! यमुद्दिश्य पृच्छसि, निवेदयामि तस्य वैभवम् । शृणु तावत् । अस्ति प्रशस्त - तमारिभीकरा नाम नगरी । तामधिवसति गुणगणमणिरोहणाद्रिर्जीव सेनो नामावनीपतिकुमारः सोऽयमिति न्यवेदयत् ।
125
निशम्य च तदुक्तिं तदासक्तचित्ता जयंतिका संप्रेष्य च सखीजनानितरान्विविक्ते ननु मरालसेने ! भवतीं तावदात्मनिर्विशेषं हृदयमित्यावेदयामि | तद्भवत्या न परिहास्योऽयं जनः । वृषस्यन्तीति न तावदन्यथा कार्यं हृदये । किमिदमेवमिति न ज्ञातव्यम् । ललनाननुगुणं हृदयमिदमिति न चिंतनीयम् । निर्लज्जतां धिगिति नाप्यूहनीयम् । स्त्रीजनप्रतीपेयं प्रवृत्तिरिति न मन्तव्यम् । त्वयि न्यस्तविस्रंभा प्रकाश्यं हृदयमिदं निवेदयामि । तद्दर्शनात्प्रभृति तदायत्तं संवृत्तं चित्तम् । यद्यपि न परीक्षिता तस्य स्थितिः । नाप्यवकर्णितस्तस्य गुणगणः । न चिंतितस्तस्य पराक्रमोऽपि। नाप्यवलोकिता तस्य संपत् । नैव विचारितं तस्याधिपत्यम् ।