________________
जयन्तिका
घोराकृते ! राम ! जयजय देव ! भगवन्दशाशाप्रशांतीकृताशेषराजत्पलाशेशपीडातपोदंडकोदंड ! देवेशकांडासनाश्लिष्टसीतातटिलिकांतातिनीलाभिरामोल्लसद्रामजीमूत ! जयजय देव ! भगवनिजास्येंदुसंदर्शनाधीनगोपांगनाश्लेषपीनस्तनाभोगजाज्वल्यमानार्द्रमीनांचितोरस्स्थल ! भक्तावनायैव दुग्धाब्धिमध्ये फणींद्रे शयानाय नारायणायास्तु तुभ्यं नमो देवदेव ! प्रदेह्यद्य संदर्शनं ते कृपांमोनिधे ! वेदवेद्यानवद्यांबुदद्योतहृद्यांगकांत ! पद्मालयाकांत ! नमस्ते पुनस्ते नमः।
इति स्तुत्वा च बहुधा भक्तिसमासक्तखांतश्शतानंदःश्रियःपतिसुंदरदिव्यमंगलमूर्तिमनुध्यायन्बद्धांजलिपुटः क्षणमिव स्थाणुवत्तस्थौ ।
तत्क्षणमेव सहस्रकिरणसहस्रतेजःपुंजसंकाशं शून्यीकृतनिखिलदिक्चक्रवालंविदधदमरान्परस्परस्पर्शानुमेयानुदतिष्ठत्क्षीरपारावारोदरात्किमपि तेजः। उत्थाय च समवगतं भवदागमननिदानं ; गच्छन्तु भवन्तो निवारयाम्यधुनैव वरप्रदानेन तस्य नरपतिसुतस्य तपोवेगमित्यभिधाय क्षणादेवांतरधात् । अवर्ण्य च कर्णाभ्यर्णावकीर्णपीयूषशीकरं मधुरतरं गभीरं भगवतो भाषितममंदानंदतंदिलास्सर्वेऽपि शतानंदप्रमुखाः बृन्दारकाः निजावासमयासिषुः । अथ च पुंडरीकाक्षः पक्षिपतिमधिरुह्य प्रस्थितस्त्वरया समुन्नमितबाहुयुगलं कुशेशयकोशनीकाशबद्धांजलिपुटं तपोनलज्वालाभिरिव पाटलतरजटाभिरतिगहनोत्तमांग निमीलितनयनयुगलं सर्वदापि परिस्फुरदधरोष्ठपुटमतिकृशतर्नु परिधृतवल्कलं दक्षिणोरुमूलविनिहितवामचरणतलं क्षितितलनिक्षिप्तदक्षिणप्रपदं वैश्वानरमिव समुज्ज्वलन्तं भुजगमिव वाताशनं दिवाकरमिव द्विजवजसेव्यमानं पशुपतिमिवाहिततिसमावेष्टितविग्रहं हिमशैलप्रांतमिव हंसधवलमानसं तं चारुवक्त्रमद्राक्षीत् । दृष्ट्वा चानुकंपया तात! चारुवक्त्र ! प्रसन्नं पश्य मामेनम् । तन्निवेदय यदभिमतं ते दित्सुरस्मीत्यब्रवीत् ।
श्रुत्वा च घनरवगभीरां मनोहरां गिरं हर्षोत्फुलनयनकमलस्सोऽपि