________________
174
जयन्तिका सकभासुरभ्रभङ्गभीकरललाटपट्टाभ्यां बहिःप्रसारितसिंदूरारुणितकरालदंष्ट्रामध्यप्रसमरजिह्वापलवाभ्यां विततवर्तुलकृष्णकनोनिकाभयंकरशोणेक्षणाभ्यां पाटलांशुकपरिष्कृताभ्यां अरुणकरवीरकुसुममालालंकृतकंधराभ्यां मेचकशिलासमुत्कोर्णाभ्यां करधृतकरवाललताभ्यां मूर्तिमतीभ्यामिव क्रुद्भ्यां नात्युन्नते च भक्तार्पितकुंकुमचूर्णपाटलिते शिलापीठे प्रतिष्ठापिताभ्यां द्वारपालिकाभ्यां समुपजनितसाध्वसं निहतानेकपशुजिह्वापल्लवप्रचुररसालकिसालयतोरणपरिमंडितप्रतीहारनासातलं नात्युन्नतशिलास्तम्भाग्रसमुत्कीर्णदीपभाजनपरिपूरितनिंबतैलप्रज्वालितदीपप्रसमरकटुगन्धबन्धुरद्वारपालिकापार्श्वदेशमनेकपशुशिरोधिरुधिरधुनोस्नापितया पशूनां प्राणात्ययावसरे बहिरनुगतेन चिररूढमूलजीवितानुरागेणेवात्यरुणया प्राणिप्राणापहरणसन्निहितकृतांताधिष्ठानाय समास्तोर्णरक्तवर्णकुथास्तोर्णयेवानत्यायतया नात्युन्नतया च वध्यशिलावेदिकया भयानकपुरोभागं मकुटतटप्रकटोपलक्ष्यमाणरमणोयमणिगणकिरणजालाक्रांततनुतया बर्हिबर्हस्थगितयेव प्रभाभिरिव स्नापितया कांतिशलाकापंजरमध्यप्रविष्टयेव बहिरुद्वमद्रोषानलज्वालाजालपरीतयेव सृजत्येव निजशरीराद्विविधवर्णगणानिंद्रचापपरिवेषयेव हरिद्राचूर्णचर्चिततया पिंगलरुचा तपनीयद्रवपुस्तविग्रहयेव कुंकुमपटीरकर्दमचर्चितया संध्यारुणयेव पश्चिमदिशा लोहितकरवीरप्रसूनमालाभिर्विरचितवैकक्षमालया अचिरनिहतदनुजपतिवक्षस्थलरुधिरधारारुणितकेसरकलापं नरकेसरिणमिव विडंबयन्त्या दक्षिणपाणिकृतकृपाणया क्रोधोत्थितेन कालोरगेण भयानक वल्मीकमिव परिहसंत्या नीलशिलाविष्टरोपविष्टया दाडिमोकुसुमसच्छायकौशेयकमनीयकायया सर्वांगीणराजतामरणया दुर्वर्णकरोटिमालापरिष्कृतवक्षस्थलया कुंकुमकृतवंशपत्रसदृशतमालपत्रचित्रितललाटया भ्रकुटितभ्रुवा निस्तलायत-शोणभयानक-नेत्रया अर्ध-चन्द्राकार-रजताभरणवलयितनासाग्रया बहिनिस्सृतेन रुधिरधारामिवोदमता शोणरुचा जिह्वापल्लवेन पिहिताधरबिंबया सूक्मागनिस्सृतदंष्ट्रया समीकवसुमत्येवानेकजीवापकर्षणावसर