________________
प्रथमलहरी
मुक्ताफलदंतुरमधरोष्ठविद्रुमलतासनाथ चतुराननमंडलमुदन्वंतमिवोद्वहन्तं आनायचतुष्टयावसथैः कठैरुपशोभमानं निगमशाखानुकारिभिश्चतुभिर्भुजदंडैः परिमंडितं स्वच्छतरानतिस्फीतस्फटिकमालिकाकपटेनान्तःपूर्णश्रुतिवर्णश्रेणिमिव बहिःप्रकटयदायतमुरस्थलमुद्वहन्तं चतुराननकमलतया चतुःकरसरोरुहतया च कमलवनमिव प्रदर्शयन्तं विशददुकूलप्रान्तलंबितमुक्ताफलकलापस्य समुत्कीर्णवर्णमयचारणपाणिलंबितडोलायमानसौरभसमाकृष्टदिव्यचंचरीकनिकरमधुररवमुखरितदिव्यकुसुममालांचितस्य नात्युन्नतविचित्रमणिमयस्तंभचतुष्टयस्य मंडपस्य मध्ये विलसति प्रत्नरत्नप्रभापिशंगे विमलमृदुलतरदुकूलालंकृते कलधौतकमलविष्टरे निषण्णमुभयपार्थोवूयमानकाशकुसुमकेसरसंकाश चामरपवनपरिनय॑मानतनुतरविमलदुकूलपरिधानं ब्रह्मोद्याः कथाः कथयद्भिस्सनकसनंदनसनत्कुमारैः परिचर्यमाणं भुवनत्रयप्रतीक्ष्यैर्दक्षचाक्षुषमनुप्रभृतिभिः प्रजापतिभिस्संसेव्यमानं निरवद्यविद्याहृयैस्सप्तर्षिभिस्समर्प्यमाणया सपर्यया समधिगतमर्यादातीतप्रमोदं कैश्चिदृग्वेदपारायणपरैर्नुतिचतुरैः कैश्विद्यजूंषि पठद्भिः कैश्चित्प्रशंसापरसामगानैकतानैः कैश्चिद्याक्रियमाणक्रतुक्रियामन्त्रतन्त्रैः कैश्चित्प्रकटीक्रियमाणधनुर्वेदैः कैश्चित्परीक्ष्यमाणजीवातुमूलिकास्तोमैः कैश्विनिर्दिश्यमाननवरत्नगुणदोषैः कैश्चिदुपदिश्यमानप्राणिशास्त्रैः कैश्चित्प्रकाश्यमानभूगर्भनिधिदर्शनोपायैः कैश्चिद्विलिख्यमानश्राद्धकल्पैः कैश्चिदुच्यमानग्रहनक्षत्रचारफलैः कैश्चित्प्रदीमानकठोरविषभेदकार्यतदुपशमनविधानैः कैश्चिक्रियमाणाथर्वव्याख्यानैः कैश्चिदुच्यमानकामतन्त्रैः कैश्चिजगदुपकृतिकलाप्रकटनपरैश्चतुष्पष्टिकलापारगैर्जगदुपकृतिपरायणैः महात्मभिर्महर्षिभिः विच्छुरितप्रांतप्रदेश, "आस्तांतावत् ! त्रिदशालयरसातलवैभवम् । कलिपुरुषसार्वभौमवशीकृतस्य मर्त्यलोकस्य किंचिदिव निवेदयामि वैभवम् । तदवधारयतु भगवान् भवान् । तत्र तावचित्रपट इव बहुमन्वते वर्णसांकर्य ब्राह्मणाः । परित्यक्तक्रतवोऽपि स्थपतयः । गृहिणोऽपि वर्णिनः । अद्वैतवेदान्तार्था इव मिथ्या