________________
तृतीयलहरी
सुदूरं परिधावनपरा निराश्रया कांतारैकशरण्या सरश्वेदमास्माकमाससाद । आसाद्य च सोपानतले निषण्णां विषण्णहृदयामेकाकिनीमेनां बालिकामवलोक्य दयाधीनहृदयोऽहमाहूय निजोटजमनीनयम् । तथाचेदानीमगण्यतारुण्यपण्या प्रमदेयं देया निरंतरोपलालिता तस्मै चारुवक्त्रायेत्यकथयत् । इयं तावदासवस्येव मदजनकस्य कृष्णस्येव समुत्पादितमकरध्वजस्य कृष्णपक्षस्येव जनितमोहांधकारस्य भवदीयोदंतस्य श्रवणात्प्रभृति स्वयमेवोन्मत्तेव किमपि व्याहरंती समारब्धवतेव दूरीकृताहारा बधिरेव शब्दापिताप्यदत्तप्रतिवचना मधुमासकुंदलतापलाशश्रीवि पांडरशरीरा बहुलपक्षक्षपाकरकलेव क्रमक्षीयमाणातिकृशतनुर्मुक्तेव भवद्गुणस्यूतहृदया जगदखिलमपि शून्यमिव मन्यमाना मानातीतचिंता मया समाश्वास्यमाना चाभवत् ।
अद्य तावदनवद्यांगीयं कुरंगीवात्र हृधे शाद्वलतले सुसुखं कालयापनाय मया साकं पर्यटन्ती, “ अयि ! सखि ! कथमिव तत्प्राप्तिः ? कथमपि दर्शनपथमागतोऽपि मुनिजनोचितवेषां मामेनां कथं वांगीकरिष्यति ? कथमिव दर्शनपथसमागमो वा ? यदनवकर्णितमदुदंतस्सः नरपतिमकुटकोटिही रमरीचिनीराजितचरणारविंदः कथं वा मदिदृक्षया समागच्छेत् ? निरंतर श्रमसाध्यकर्मरतानां तापसानामाश्रमवासिनां जठरपतितामेनां मां को वा शंसति तस्मै ? कथं कथमपि श्रुतास्मदुदंतोऽपि चक्रवर्ती गणयति वा मां ? यदहमहमिकया वित्तमत्तमत्तकाशिनीभिस्सादरमाद्रियते। वल्कलधारिण्यै मलिनवेषायै मह्यं अपि नाम स्पृहयति ? स्वप्नस्वापतेयकल्पमिदम् । सङ्कल्पमात्रहृद्यम । वाचा वर्णनमात्रसौहित्यम् । कथं कथमपि बहुधा चिंतितमपि न मे हृदयमधिरोहति तत्संबन्ध - गन्धोऽपि । क्कायमाश्रमः श्रमैकजीविनां ? क्व सा नगरी गरीयसी भोगै कलोलुपानाम् । मेरुसर्षपांतरोऽयं सङ्कल्पः । मुधा मनश्श्रमः । पर्णशालावाससुहिताया मे हृदयालवाले तातेन दीर्घसत्रेण मुधा समारोपितोऽयमाशांकुरः । एवं विदितव्यवहारापि निवर्तयितुं हृदयं तदुदंतान्न
107