________________
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
प्रस्तावना
परश्शतं पद्यकृतो ऋक्षाणीव नभस्स्थले । हृद्यानवद्यगद्यस्य कर्ता राजेव गजते ||
इति,
इह खलु जगति जन्तवो विषयैषिणो यदि पृच्छ्यन्ते किं सारम् ? " असारे खलु संसारे सारं सारङ्गलोचना " इति उत्तरयन्ति । विषयविरक्ता यद्यनुयुज्यन्ते " असारे खलु संसारे सारं सर्वेशसंस्मृति: " इति वदन्ति । " काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् " इति - वदत्रैव जीवन्तो मुक्तकल्पा धीमन्तः " असारे खलु संसारं सारं सारस्वतामृतम् ” इत्युद्घोषयन्ति ।
तच्च विविधं विद्योतते काव्यरूपकविभेदेन । काव्यश्च गद्यपद्यात्मना द्वेधा भवति । रूपकच " नाटकं सप्रकरणं " इत्यादिरीत्या दशधा विभिन्नम् । तत्र केचन " गीतिरात्मा काव्यस्य " इति, "वाक्यं रसात्मकं काव्यम् " इति, "वक्रोक्तिः काव्यजीवितम्" इत्यादिचानुसन्दधते ।
ध्वनिप्रस्थापनपरमाचार्यो ह्यानन्दवर्धन: "काव्यस्यात्मा ध्वनिरिति बुधैर्यस्समाम्नातपूर्वः " इत्यादिना " ध्वनिरेव काव्यस्यात्मा ” इति परमप्राचीनैरेव निर्णीतम् । स च रसभावतदाभासभावशान्त्यादि रूपेण नैकधा भवति । इति च सदृष्टान्तं सिद्धान्तयति ।
'
सर्वत्र काव्येषु नाटकेषु वा यः कोऽपि रसः प्राधान्यमावहति । इतरे च यथायथं तदङ्गताम् । स च ग्स: " रसो वै सः " इत्यादि - श्रुत्या ब्रह्मास्वादसहोदरः । स एवानन्दयति सकलानपि लोकान् ।