________________
चतुर्थलहरी
संध्याकालमिव विजृम्भमाणनीलकंण्ठतांडवं युधिष्ठिरमिव दूरीकृतधार्तराष्ट्रं पुरोधसमिव परिघृतकुशं द्रोणाद्रिमिव मारुतजातानीतं क्रूरसत्वमिव समुपजनितपथिकभीतिं दशरथतनयमिव निरस्तविभीषणसंतापं दंडकारण्यप्रदेशमिव कबंधाक्रांतमपि मनोहरं शंकरमिव धृतविषमपि विकचकेतकीपरागामोदितं संतमिव समाश्रितसत्पथमपि निपातितपरुषतराशनिजनितजनखेदं शंबरजनकमपि शंबरारिजनकं रोदसोरपि निहुतराजहंस जीमूतव्रातमपश्यत् ।
दृष्ट्वा च स जीवसेनो मनोभवभीत इव मुहुर्जलधरस्तनिततर्जितस्तामेव जयंतिकामनुध्यायन्शपापातभीतो गंधर्वपतिवरबलादं तर्हितशरीरो गत्वा च सत्वरं गंधर्वराजनिर्दिष्टया शर्करिलप्राययारण्यानीसरण्या रमण्यालोकनकुतुकाविदितमार्गश्रमो वात्याहतोन्नतमहीरुहपर्णनिचयसीत्कारराव भीषित इव क्वचित्तिष्ठन्पवनोत्थापितानुसृतशुष्कपलाशनुन्न इव कचिद्धा - वन्घनतरघनावलिनिरंतरांधकारमेदुरतरुगहनतया क्वचिन्मन्दं ब्रजन्निरंमद - पिहितनयनतया क्वचिद्दिग्भ्रांतः तिष्ठन्क्रमेण समतिक्रांतसमुच्छ्रितमहीरुहमहीधरधुनीनाकुकुंजपुंजसरश्श्वभ्रशर्करिलसरणिस्समुदग्रशातकुंभकलशशतनि शितशिखरविलेखन विदलितजलधरगलितजलधाराधौतैरत्युन्नततया सभ्रमणं समारब्धकंदुकक्रीडाभिर्वातशकलीकृतस्यायतवातायनविवरादभ्यंतरमायातस्य कंदुकशंकया करकिसलयतलास्फालिततया परिस्फुटितस्यानतिपृथुलस्य वलाहकपिंडस्य सलिलैस्स्नापिताभिः कृततालाट्टहासाभिर्बालिकाभिनींरंभ्रितक्षीमैर्वलभिशिखरतलप्रतिष्ठापिताः विविधवर्णचित्रिताश्च मृण्मयमयूरी स्समुन्नमितोद्दण्डमसृणतरस्निग्धश्यामलकण्ठैर्विस्तृतायतमंजुलचन्द्र कसहस्रैः सतांडवं मुहुरनुसरद्भिर्भवनमयूरैरुपशोभमानैः क्षपाप्रवृत्तविस्रब्धमिथुनकेलिकालालापश्रवणरूढसंस्कारतया प्रभातेऽपि गुरुजनाग्रतस्समारब्धतद्वयाहारतया च समंदाक्षस्मितं सभ्भ्रूभङ्गं च समुपालभमानाभिस्तदुक्तिगोपनकृतयत्नाभिः विलासिनीभिः दीयमाननानाविधरसभरितफला स्वादपरैः कनकपंजरगतैः
133
-
-