________________
जयन्तिका पांडरघोटकचतुष्टयसनाथपुरोभागममिवर्मनामकसूताविरहितपुरोदेशं द्वारदेशस्थितं रथमधिरुह्य वृत्रासुरवधबद्धादरः पुरंदर इवाराजत ।
तदनु सारथिना परिचोदितास्तुरंगमाः किंचिदिव विवृतवदनाः खलीनमसकृजिह्वामूलेन चालयंतस्सितफेनपिंडाकुलितहक्कभागाः निश्चलोर्ध्वश्रवणपुटाविनमितकश्यदेशाः निजोदरेण स्पृशंतो धरातलं स्तोकोन्नमितवालकलापास्स्वेदसलिलस्रपितविग्रहाः परस्परसंघर्षणजनितधर्मजलसमुस्थितफेनचर्चितोरुमूलाश्चात्यर्कवाजिवायुवैनतेयजवाःसुदूरपरिदृश्यमानानपि महीधरमहीरुहान्क्षणादेव पृष्ठतः कुर्वतः तां निशाचरावासभूमिमगमन् ।
स तु जीवसेनः परितः पश्यन् निशम्य च प्रधावतां सैंधवानां खरतरखुरपुटरटितममर्षेणापतन्तं सन्ध्यातपारुणितशिखादलपरंपरं जंगमं नारिकेलतरुमिव शिरोविलसत्पाटलकुटिलजटापटलं स्थूलपनसफलसंकाशस्थपुटितोत्तमांग सरीसृपफणांतःप्रदेशप्रतीकाशनिग्नललाटतटमरुणतरप्रसमरभूदंडविडबितदेवजग्धकसमार्जिनीसंभारमत्यल्पनेत्रापहसिततित्रिणीपत्रवैभवंशूर्पायतलंबमानरोमपिहितश्रोत्रयुगलं पृथुलतरप्रसृतकुटिलघोणगह्वरं गजगंडस्थलानुकारिसमुदंडगंडभित्तिविडंबितगंडशैलंशैलदरीसोदरभयंकरवक्त्रविवरं गुहोभयपानिपतन्निर्झरप्रतीकाशनिशितसितायतदंष्ट्रायुगलं सालतरुमूलदेशसोदरपीवरकठोरतरकंधरं स्कंधपीठधिकतोदंडगंडशैलं खदिरपीवरशाखानुकारिभयंकरभुजदंडं गिरिसानुशिलातलविशालवणकिणस्थपुटितवक्षस्स्थलं स्तंबेरमशुष्कसिराबद्धशार्दूलाजिनतटलंबमानपीवरोदरं स्थूलस्थूलवल्गन्मांसलासितसक्थिस्तंभं करिचरणोच्छूनजंघाकांडं परस्परप्रोतारालांगुलिकुटिलविशालकठिनचरणं प्रांशुशूलपोतमृतविविधवन्यमृगारुणरुधिरबिंदुसिच्यमानबाहुमूलं कलिकालमिव सशरीरं दुरितनिकरमिवैकत्र संघीभूतं द्वितीयमिव यमं हरमिव धृतत्रिशूलं महासेनमिवाद्भुतशक्तिं पुण्यजनाभिनन्दितमपि पुण्यजननिंदितं प्राणिहननैकबुद्धिमपि सदावनसरणिसंचरणोत्सुक