________________
जयन्तिका
प्रसाधय मद्भवनगता देवता इव मणिमयसालभंजिकाः । मा विस्मर मामिति बहुधाभिधाय निवार्य च सांत्ववचनैरनुव्रजन्तीं सखीं लज्जाभरविनमितमुखी सुधाकरमिव रोहिणी प्रस्थितं जीवसेनमनुसरती सुरंगसरण्या निरगात् ।
144
गत्वा च सा पक्ष्मलाक्षी जीवसेनेन साकमवाप्य चाटवीतटं चरमगिरितरुषंडांतर्हिते च चंडकिरणमंडले निबिडतरजलभरितवलाहकाकुलितेषु दशदिगवकाशेषु मुदिरपरुषरावमुखरिते च कांतारे सर्वतः प्रसृमरे चांधकारे मुहुर्मुहुः परिनटत्कुटिलचटुलतटित्पटलतया द्विगुणितांधकारपिनद्धनयनव्यापारे कांताराध्वनि गाढध्वांतविध्वंसितनयनपथतया कृच्छ्रात्सावधानं करोन्नमितलंबमाननीवीकलापा भयविह्वलापि वल्लभानुगमनलब्धधैर्या पल्वलतटकटुरटन्मंडूकारावकदर्थितकर्णविवरा शाद्वलतलखेलत्खद्योतत्रातद्योतसाह्यगमनसौकर्या परितः प्रसरत्तारतरझिल्लीरा वदंतुरितदिगंतरदत्तदृष्टिः जीवसेनभुजशिखरविनिहितदक्षिणपाणिकमला अविमल - कच्छतलकर्दमकलुषितचरणयुगला कथंकथमपि मन्दं मन्दं कटुकण्टकनिचितेन स्थपुटिततलेन वनवर्त्मना ययौ । एवमायांतीं गमनखेदमावेदयन्तीमशनिभीकररावजर्झरितहृदयां क्व गन्तव्यम् ? कुत्र स्थातव्यम् ? किमु कर्तव्यम् ? किं व्यवसितं मनसि ? त्यक्तबन्धुवर्गाहमेकाकिनी भवंतमनुगतास्मि । कियद्दूरे राजधानीत्यसकृत्पृच्छन्तीं जयंतिकां समाश्वासयन् सांत्ववचनैः गच्छंश्च मन्दं मन्दं सगर्जनं सशीकरासारं वर्षितुं समारब्धे जीमूते क्रमेण पृथुलतां गते च धारापाते जंझावातपरिघूर्णितत रुनिकरपर्णपटलपटपटात्कार मुखरिते कांतारे साध्वसेन सोढुमशक्योऽयं धारापातः । गंतुमशक्तास्मि । निपतत इवांत्री । परिश्रांतास्मि । यत्र कुत्रापि स्थातुमिच्छामीति पदे पदे निवेदयन्तीं जीवसेनः भुजदंडावेष्टिततदवलग्नः सद्यः प्रादुर्भूतविद्युल्लताप्रकाशितां दीर्घतरोदरां गुहां प्राविशत् ।
प्रविश्य च तत्र शयानो मा भीरहमस्मि इति नरपतिरनुनयपुरस्सरं