________________
पञ्चमलहरी
भो !
मा भूदस्यामन्यधा ते तु भावः वह्निज्वालेवेयमप्यार्य ! शुद्धा । तस्मादेनां प्रीतिपूर्वं गृहोत्वा युक्तो भूयाश्छाययेवांशुमाली ॥ एतदवकर्ण्य विस्मयाश्लिष्टमानसेषु सामाजिकेषु जोवसेनोऽयमब्रवीत् । भोः ! सभ्याः ! विदितं ननु चिरंतनमस्याश्चरितम् । प्रसिद्धश्च अनन्यसाधारणो मयि दृढतरोऽनुरागः । मद्वचश्श्रवणसमनंतरमेवाविर्भूतं दुःखभरकन्दलितं दलितहृदयसमुत्प्लुतं मुखवैवर्ण्यमेवावर्णयदितरजनदुर्लभमस्यास्सौशील्यम्। मया त्यक्तयाप्यनिर्वचनीयं कष्टमनुभूतम । ज्ञातपूर्वमेवेदम् । तथापि भवतां विसंभाय मया तावदेवमाचरितम् । दुष्टं हि जगत् । पावकशुद्धामपि जानकीं जगदन्यधा मेने । तदिदानोमंगोकरोम्येनां पतिदेवतां इत्यभिधाय सिंहासनादवरुह्य समंदस्मितं प्रियाकरकिसलयमवलंब्य पुनरपि तदेव सिंहासनमलंचकार ।
205
तत्क्षणमेव काहलमर्दलपटहपणवादिविविधानवद्यवाद्यध्वानैरेकदैव प्रमोदभरकन्दलितसभास्तारतारतालध्वनिभिस्साधुवादैश्चापूरितमभूत्सभांकणम् । तदनु विदितोदन्तो वीरकेतुः वृद्धभावकम्पमानविग्रहोऽपि साध्वसभर - द्विगुणितकम्पः समुपसृत्य जोवसेनं सांजलिबन्धं क्षन्तुमर्हति देवः किमप्यजानता मया तावदियन्तं कालं यत्कृतमागस्तदखिलमपि । इति नरपतिचरणकिसलये सितकुसुमस्तबकमिव पलितं मस्तकं चिरमकरोत् । तदायं जीवसेनः कृतांजलिपुटं दर्शितप्रह्वभावं तं वीरकेतुमब्रवीत् । नन्वलमनया शंकया। रक्षिता वयमिह भवतैव । स्त्रीभावसंतप्तहृदयोऽपि ते पुत्रः सुकेशोऽयं दैवदुर्विपाकाच्च्युतसंपदामस्माकमतानीदुपकारं वाचामगोचरम् । भवतो भवन एवास्माभिरुपलब्धा निर्वृत्तिः । लब्धा च दयिता । समनुभूतश्चात्मजमुखपुण्डरोकदर्शनजनितो निरतिशयानन्दः । तदधुना पुरुषभावप्रमुदितं भवत्तनयं निर्वर्तितपट्टाभिषेकं सुकेशं राजानं कर्तु - मभिलषामोति ।
तदनु जीवसेनसिहासनादवरुह्य तं सुकेशमारोप्य तदेवासनं