________________
· जयन्तिका
कार्यैकचित्ततया परिस्खलनेन मा पीडय तम् ! किमयि ! पेशलालापे ! नर्मवचनेनैव कालमतिवाहयसि । द्रोणीसलिलेनापूरय कनककलशमित्यादिपरस्परभाषमाणवाररमणीरमणीयवाणी श्रेणी पीयूषवेणीप्रीणितश्रवणसरणि र्मज्जनसदनमाससाद ।
आसाद्य च स चारुवक्त्रः चेलांचलसमुत्कृतनीवीकलापपिंडाभिः समुत्सारितनोरवकरवलयालिभिः मृदुलांशुकदृढतरोद्धद्धकुंभिकुंभ निभपयोधरभाराभिराकर्णमूलसमुत्सारितडोलायमानकुटिलकुंतलपंक्तिभिस्समुद्धद्धपयो घरतटलंबमान भुजगभोगनिभवेणीभिः पर्यटनशब्दायमानचरणाभरणाभिर्यदायदा यद्यदभिलषत्ययं तदातदा तत्तद्दातुं काभिश्चिद्गृहीतोष्णोदककलशाभिः काभिश्चिच्चन्दनरसशीतलितसलिलपात्रपाणिभिः काभिश्चित्करतलविनिहितस्नान चूर्ण भाजनाभिर्यथासुखं स्नापितश्च स्वयमपि जलयंत्रा - न्निपतंत्यां वारिधारायां च द्रोणीसलिले च स्वैरं स्नात्वा धीतांशुकप्रसृष्टप्रकृष्टप्रतीकः शंकर इव केशपाशबद्धसितांशुकोऽथ शुको दर हरितपट्टपरिधानो विष्णुरिव भुजलंबितपीतांबरः कुंकुमस्थासकचिह्नितललाटफलकस्सवनसदनं प्राविशत् । एतावता कालेन त्रयीतनुरपि तापस इव मन्दंमन्दं क्रमेण परित्यक्तपूर्वाशः वीतरागः मोलिततारको विष्णुपदासक्तश्वाभवत् ।
तदनु स कुमारस्तत्र मारोपमरूपो वयसा ज्ञानेन च लब्धवृद्धभावं रोहिताश्वाभिधं कुलपुरोहितं पुरस्कृत्य कालातिपातदोषप्रशमनपटुतरप्रायश्चित्तपुरस्सरं मरुन्मालाज्ञया निर्वर्तितचौलोपनयनादिकर्मा तैजसं शरीरं प्रविष्ट इव प्रकाशमानो द्रविणौदनादिदानेन तोषितभूदेववर्गः परिगृहीताहारः कदाचित्प्रासाद शिखरमारूढः वैजयन्तीरामणीयकावलोकनेन कदाचिद्रथाधिरूढः पंजरगतादृष्टपूर्वविचित्रतरखगमृगव्रातक्रीडादर्शनेन कदाचित्स्पृहणीयविचित्रवर्णपूर्णनिकृंतनकलाकौशलदर्शितवैचित्र्यतरुलताकुंजपुंजालंकृता।मावलोकनेन कदाचित्तुरगवराधिरूढः समुचित -
78
·