________________
EEEEEEEEEE
MATERIAHINITIONARIENTRIENT WISIR सामायारी Jus ___ यशो. - अयं भावः - न खल्वत्राभियोगशङ्कापरिहारकाम एवेच्छाकाराधिकारी, येन स्वतस्तच्छङ्काविरहस्थलेऽनधिकारिकृतत्वेन कार्यवैफल्यापत्तिः, किन्तु निर्जराविशेषकाम एव तदधिकारी । तत्कामना चोक्तस्थलेऽपि निरपाया ।
चन्द्र. - अत्र निष्कर्षमाह - अयं भावः इत्यादिना । यो यस्मिन्कार्ये अधिकारी भवति । तत्कार्यं । २ तेनाधिकारिणैव कृतं सफलं भवति । अनधिकारिकृतं शोभनमपि कार्यं निरर्थकं भवति । यथा पूजायां १ अनधिकारिणा साधुना कृता पूजा निष्फला भवति, यथा वा गोचरीचर्यायामनधिकारिणा गृहस्थेन कृता गोचरीचर्या निष्फला भवति। ततश्च सर्वस्मिन्कार्ये अधिकारी एव गवेषणीयः । न त्वनधिकारी ।। इच्छाकारसामाचार्यां तु यदि अभियोगशङ्कापरिहारकामः एव अधिकारी भवेत् । तर्हि स्वयमेव कार्यं कर्तुं । उपस्थितं क्षुल्लकं प्रति इच्छाकारं कुर्वन् साधुः अभियोगशङ्कापरिहारकामो नास्ति, यतः तत्राभियोगशङ्कायाः । अवकाश एव नास्ति । ततश्च तत्र तेन क्रियमाणः इच्छाकारः अनधिकारिकृतो भवतीति स निष्फल एव स्यात्।। तस्मात् इच्छाकारे निर्जराविशेषकाम एव अधिकारी । ततश्च प्रकृतस्थाने अभियोगशङ्कापरिहारकामनाविरहितोऽपि साधुः सामाचारीपालनजन्यनिर्जराविशेषकामस्तु संभवत्येव । एवञ्च तत्र तेन क्रियमाणा सामाचारी। के अधिकारिकृता भवतीति न इच्छाकारस्य तत्र निष्फलत्वापत्तिः । एष भावार्थः प्रतिपादितः । अक्षरार्थस्तु १ स्पष्टत्वात् भावार्थगम्यत्वाच्च न पुनरुच्यते ।
સારાંશ એ છે કે “સામેવાળાને થઈ શકનારી અભિયોગની શંકાને દૂર કરવાની ઈચ્છાવાળો સાધુ જ છે હૈ ઈચ્છાકારનો અધિકારી છે” એવું નથી. એવું હોત તો ઉપરના સ્થળે એ શંકા જ ન હોવાથી એને દૂર કરવાની છે 8 ઈચ્છા પણ ન હોય. એટલે ત્યાં સાધુ ઈચ્છાકારનો અધિકારી ન બને અને તો પછી ઈચ્છાકાર કરે તો એ ઈચ્છાકાર છે છે અનધિકારીએ કરેલો હોવાથી એ ઈચ્છાકાર રૂપી કાર્ય નિષ્ફળ જવાની આપત્તિ આવી શકે.
પરંતુ નિર્જરાવિશેષની ઈચ્છાવાળો આત્મા જ ઈચ્છાકારનો અધિકારી છે. અને એ ઈચ્છા તો ઉપરના સ્થલે છે = બલાભિયોગશંકા-અભાવ સ્થળે પણ ઈચ્છાકાર કરનારાને હોઈ જ શકે છે. એટલે એ ઈચ્છાવાળા વડે કરાતો ઈચ્છાકાર એ અધિકારી વડે જ કરાયેલો હોવાથી નિષ્ફળ ન બને. પરંતુ સફળ જ બને.
यशो. - उक्तशङ्कापरिहारस्तु विधिवाक्यान्तर्गतेच्छापदादेव श्रोतुः संभवति ।
चन्द्र. - ननु यदि सर्वत्र निर्जराविशेषकाम एव इच्छाकाराधिकारी । तर्हि यत्र बलाभियोगशङ्कासंभावना अस्ति । तत्रापि निर्जराविशेषकाम एव इच्छाकाराधिकारी मन्तव्यः, न तु तादृशाशङ्कापरिहारकामः । ततश्च तत्स्थले इच्छाकारं कुर्वाणस्य रत्नाधिकस्य बलाभियोगशङ्कापरिहारकामना नास्ति । तदभावे तु परस्य क्षुल्लकस्य तादृगाशङ्कायाः परिहारः कथं भवेद् ? इत्यत आह उक्तशङ्कापरिहारस्तु इत्यादि । विधिवाक्यान्तर्गतेत्यादि। "हे क्षुल्लक ! त्वं ममेदं कार्यं इच्छाकारेण कुरु" इति विधिवाक्यस्यान्तर्गतं यत् इच्छाकारपदं, तस्मादेव । यथा हि मिष्टं भुञ्जानस्य तृप्तिकामस्य तद्भोजनं पित्तशमनेच्छाविरहेऽपि पित्तशमनं करोति । तथैव इच्छाकारं कुर्वाणस्य निर्जराविशेषकामस्य स इच्छाकारः बलाभियोगशङ्कापरिहारेच्छाविरहेऽपि बलाभियोगशङ्कापरिहारं
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત - ૩ MeeruR TERESOURCURRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRB