Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 238
________________ નિસીહિ સામાચારી मिथ्यात्वादिदोषानामपि संभवो भवतीति तदाऽऽशातना यदि न भवेत्, तदापि तस्य तु दोष एव ॥३१॥ "गुरुदेवानामवग्रहे दृढोपयोगपूर्वकं तीव्रप्रयत्नपूर्वकञ्च प्रवेशः कर्तव्य" इत्येव दृढयितुमाह एत्तो चेइयसिहराइदंसणे च्चिय गयाइओसरणं । सड्डाण वि साहूणं किमंग पुण एत्थ वत्तव्वं ॥३२॥ गुरुदेवानामवग्रहे दृढोपयोगतीव्रप्रयत्नादिकं विना प्रवेशे क्रियमाणे गुर्वाशातनादिजन्यो महान्दोषो भवति। तस्मादेव ये श्रावका जिनगृहे जिनान् वन्दितुं निर्गच्छन्ति । तैर्जिनगृहशिखरं यदा दृश्यते, तदैव गजादश्वाद्रथादन्य यानाद् वाऽवतरणं कर्तव्यम् । अन्यथा जिनानामाशातना भवेत् । एतच्च हरिभद्रसूरिभिः प्रतिपादितम् । इत्थञ्च यदि गृहस्थानामपि जिनाद्यवग्रहे दृढोपयोगतीव्र प्रयत्नादिकं कर्तव्यं भवति । तदा सदैवाशातनाभीरूणां साधूनां तु तत्सुतरामेव कर्तव्यं भवति । इत्थञ्च ये साधवो गुरुदेवावग्रहे प्रवेशकाले गुरुदेवाशातनाकारिणामाचरणानां त्यागे तीव्रप्रयत्नवन्तो दृढोपयोगवन्तश्च न भवन्ति । तेषां साधूनां "गुरुदेवाशातनाया भयं तज्जन्यप्रत्यवायानाञ्च भयं नास्ति, जिनवचने च श्रद्धा नास्ति" इति सिध्यति । अत्र गुर्ववग्रहश्च सार्धहस्तत्रयप्रमाणोऽवगन्तव्यः । यत्र वा स्थिताः साधवो गुरुं दृष्टुं शक्नुवन्ति, यत्र वा स्थितानां साधूनां प्रतिपादितं निर्दोषमपि आचरणं गुरूणामविनयरूपं भवति । स एव देश: गुर्ववग्रहरूपः स्थूलदृष्ट्या वक्तुं शक्यते । जिनावग्रहश्च जघन्यतो नवहस्तप्रमाणः उत्कृष्टतश्च षष्ठिहस्तप्रमाण इति बोध्यम् ॥३२॥ शिष्यः प्राह - जिनगृहे गुर्ववग्रहे च प्रवेशकाले नैषेधिकीप्रयोगो युक्तः, यतस्तत्र गत्वा चैत्यवन्दनादिरूपा प्रवृत्तिः कर्तव्या । प्रवृत्तौ च क्रियमाणायामाशातनासंभवः । किन्तु यदोपाश्रये प्रवेशः क्रियते, तदा तूपाश्रयं प्रविश्य निश्चलमेव स्थेयम्, ध्यानादिकमेव गुप्तिरुपं करणीयमिति तत्र नैषेधिकीप्रयोगः कथं घटते, ध्यानादिक्रियायां गुर्वाशातनादिसंभवस्याभावादिति । ग्रन्थकारः प्राह । झाणेणं ठाणेण वि णिसीहियाए परो हवइ जत्तो । अणिसिद्धस्स णिसीहिय वायमित्तं ति वयणाओ ॥३३॥ उपाश्रये गत्वा यद्ध्यानादिकं करणीयं तत्रापि मनोयोगस्यातिशयशाली यत्न आवश्यक एव । न हि तं विना ध्यानं संभवति । तस्मान्मनोयोगादीनामतिशयशालियत्त्रार्थं तत्र नैषेधिकीप्रयोगो युक्तः । अयं भावः । “साधुना संयमयोगे दृढप्रयत्नं विना क्षणमपि न स्थातव्यम्" इति हि जिनाज्ञा । एवञ्च दृढयत्नं विना तिष्ठतस्तस्य नैषेधिकी शुद्धा न भवेत् । तस्मात् स्वोपाश्रयादौ प्रवेशकालेऽप्यवश्यं दृढयत्नार्थं दृढोपयोगार्थं च प्रतिज्ञारूपो नैषेधिकीप्रयोगः कर्तव्यः । नैषेधिकीप्रयोगो हि त्रिषु स्थानेषु भवति । यदा शिष्या गुरून्वन्दन्ते, तदा "इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि" इति सूत्रोच्चारकाले गुरोरनुज्ञां गृहीत्वा नैषेधिकीप्रयोगं कुर्वन्ति । तत्राशातनाभीरवस्ते पापानां निषेधं दृढोपयोगञ्च विदधतीति प्रागेव प्रतिपादितम् । यदा साधवश्चैत्यवन्दनार्थं जिनगृहे प्रविशन्ति, तदा जिनानामाशातना मा भूदित्यभिप्रायेण "निसीहि" इति महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286