________________
નિસીહિ સામાચારી
मिथ्यात्वादिदोषानामपि संभवो भवतीति तदाऽऽशातना यदि न भवेत्, तदापि तस्य तु दोष एव ॥३१॥ "गुरुदेवानामवग्रहे दृढोपयोगपूर्वकं तीव्रप्रयत्नपूर्वकञ्च प्रवेशः कर्तव्य" इत्येव दृढयितुमाह एत्तो चेइयसिहराइदंसणे च्चिय गयाइओसरणं । सड्डाण वि साहूणं किमंग पुण एत्थ वत्तव्वं ॥३२॥
गुरुदेवानामवग्रहे दृढोपयोगतीव्रप्रयत्नादिकं विना प्रवेशे क्रियमाणे गुर्वाशातनादिजन्यो महान्दोषो भवति। तस्मादेव ये श्रावका जिनगृहे जिनान् वन्दितुं निर्गच्छन्ति । तैर्जिनगृहशिखरं यदा दृश्यते, तदैव गजादश्वाद्रथादन्य यानाद् वाऽवतरणं कर्तव्यम् । अन्यथा जिनानामाशातना भवेत् । एतच्च हरिभद्रसूरिभिः प्रतिपादितम् ।
इत्थञ्च यदि गृहस्थानामपि जिनाद्यवग्रहे दृढोपयोगतीव्र प्रयत्नादिकं कर्तव्यं भवति । तदा सदैवाशातनाभीरूणां साधूनां तु तत्सुतरामेव कर्तव्यं भवति ।
इत्थञ्च ये साधवो गुरुदेवावग्रहे प्रवेशकाले गुरुदेवाशातनाकारिणामाचरणानां त्यागे तीव्रप्रयत्नवन्तो दृढोपयोगवन्तश्च न भवन्ति । तेषां साधूनां "गुरुदेवाशातनाया भयं तज्जन्यप्रत्यवायानाञ्च भयं नास्ति, जिनवचने च श्रद्धा नास्ति" इति सिध्यति ।
अत्र गुर्ववग्रहश्च सार्धहस्तत्रयप्रमाणोऽवगन्तव्यः । यत्र वा स्थिताः साधवो गुरुं दृष्टुं शक्नुवन्ति, यत्र वा स्थितानां साधूनां प्रतिपादितं निर्दोषमपि आचरणं गुरूणामविनयरूपं भवति । स एव देश: गुर्ववग्रहरूपः स्थूलदृष्ट्या वक्तुं शक्यते ।
जिनावग्रहश्च जघन्यतो नवहस्तप्रमाणः उत्कृष्टतश्च षष्ठिहस्तप्रमाण इति बोध्यम् ॥३२॥
शिष्यः प्राह - जिनगृहे गुर्ववग्रहे च प्रवेशकाले नैषेधिकीप्रयोगो युक्तः, यतस्तत्र गत्वा चैत्यवन्दनादिरूपा प्रवृत्तिः कर्तव्या । प्रवृत्तौ च क्रियमाणायामाशातनासंभवः । किन्तु यदोपाश्रये प्रवेशः क्रियते, तदा तूपाश्रयं प्रविश्य निश्चलमेव स्थेयम्, ध्यानादिकमेव गुप्तिरुपं करणीयमिति तत्र नैषेधिकीप्रयोगः कथं घटते, ध्यानादिक्रियायां गुर्वाशातनादिसंभवस्याभावादिति ।
ग्रन्थकारः प्राह ।
झाणेणं ठाणेण वि णिसीहियाए परो हवइ जत्तो । अणिसिद्धस्स णिसीहिय वायमित्तं ति वयणाओ ॥३३॥ उपाश्रये गत्वा यद्ध्यानादिकं करणीयं तत्रापि मनोयोगस्यातिशयशाली यत्न आवश्यक एव । न हि तं विना ध्यानं संभवति । तस्मान्मनोयोगादीनामतिशयशालियत्त्रार्थं तत्र नैषेधिकीप्रयोगो युक्तः ।
अयं भावः । “साधुना संयमयोगे दृढप्रयत्नं विना क्षणमपि न स्थातव्यम्" इति हि जिनाज्ञा । एवञ्च दृढयत्नं विना तिष्ठतस्तस्य नैषेधिकी शुद्धा न भवेत् । तस्मात् स्वोपाश्रयादौ प्रवेशकालेऽप्यवश्यं दृढयत्नार्थं दृढोपयोगार्थं च प्रतिज्ञारूपो नैषेधिकीप्रयोगः कर्तव्यः ।
नैषेधिकीप्रयोगो हि त्रिषु स्थानेषु भवति । यदा शिष्या गुरून्वन्दन्ते, तदा "इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि" इति सूत्रोच्चारकाले गुरोरनुज्ञां गृहीत्वा नैषेधिकीप्रयोगं कुर्वन्ति । तत्राशातनाभीरवस्ते पापानां निषेधं दृढोपयोगञ्च विदधतीति प्रागेव प्रतिपादितम् ।
यदा साधवश्चैत्यवन्दनार्थं जिनगृहे प्रविशन्ति, तदा जिनानामाशातना मा भूदित्यभिप्रायेण "निसीहि" इति
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७