SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ REFERRORTERRORERRIERRESTER83818033000RRRREE ARRIORITIEN T REETTERRIERE निlle सामायारी र शक्नुयात्। तथा गुर्ववग्रहे महता स्वरेण हास्यादिकरणे स्फुटैव गुर्वाशातना । कदाचिनिष्ठयुतमपि गुरोर्मुखे पतेत्, तत्तु महापापं। एवं मुखवस्त्रिकां विना गुरुणा सह वार्तालापे क्रियमाणेऽपि शिष्यस्य निष्ठयुतं गुरोर्मुखे पतेत् ।। से तथा मुखवस्त्रिकां विना वार्तालापे क्रियमाणे गुरोरविनयोऽपि स्यात् । महता स्वरेण वातनिसर्गञ्च कुर्वन्मुनिरपि । गुर्वाशातनाभाग्भवेत्। इत्थञ्च प्रायशः पापविरहिता अपि साधवो गुर्ववग्रहाद्बहिर्निर्गताः सन्तः सूक्ष्मपापवन्तः संभवन्ति । गुरोरवग्रहे च क्रियमाणानि पापानि गुर्वाशातनाकारीणि भवन्ति । गुर्वाशातना च भवोदधिवर्धयित्रीति 2 कृत्वा गुर्ववग्रहप्रवेशकाले गुर्वाशातनाभयभीतसाधवोऽतीवोपयोगयुक्ताः सन्तः सर्वाणि सूक्ष्माण्यपि पापानि र परित्यजन्ति । तदर्थञ्च नैषिधिकोशब्दप्रयोगरूपां प्रतिज्ञां कुर्वन्ति । यथा शत्रुदेशस्य समीपे स्वदेशस्य सीमनि वर्तमानाः सैनिकाः प्रायोऽप्रमत्ता एव भवन्ति । तथापि रजन्यां ते विशेषतोऽप्रमत्ता भवन्ति । यतो रजन्यां शत्रुणां भयं विद्यते । दिने चाप्रमत्ता अपि सूक्ष्मप्रमादवन्तो भवन्ति व रजन्यां युद्धादिकाले च सर्वथाऽप्रमत्ता भवन्ति । एवमत्रापि बोध्यम् । किञ्च साधूनां किञ्चिदाचरणं स्वयं पापरूपं यद्यपि न भवति, तथापि गुरोरवग्रहे तदाचरणं गुर्वाशातनाकारि भवति । यथा श्रान्तः साधुरेकस्य पादस्योपरि द्वितीयं पादमारोहयति, तदाचरणञ्च यद्यपि पापरूपं न भवति । किन्तु गुरोरवग्रहे तु तदाचरणमवश्यमविनयरूपमेव भवति । तथा साधूभ्यो महता स्वरेण पाठदानं यद्यपि र सुन्दरमेव । किन्तु गुरोरवग्रहे तथाकरणे गुरोरप्रीतिजनकं तद्भवतीति तन्न युक्तं । तथा गुरोरभावे समागतैः साधूभिः श्रावकैर्वा सह प्रथमं वार्तालापकरणं न दुष्टम् । गुर्ववग्रहे च प्रथमं गुरुरेव तैस्सह वार्तालापं करोति। पश्चादेव साधवः । एवं कश्चित्साधुः श्रान्तः सन् भित्तिं स्पृष्ट्वोपविशति । एतदपि पापरूपं यद्यपि नास्ति, किन्तु । गुरोरवग्रहेऽविनयरूपं भवति । इत्थञ्च यदाचरणं गुरोरवग्रहे गुर्वाशातनाकारि भवति, तस्य सर्वस्यापि निषेधार्थं साधवो नैषेधिकीप्रयोगरूपां सामाचारी परिपालयन्ति । ____ तत्रापि यदि दृढोपयोगयुक्ता न भवन्ति, तदा तु प्रतिज्ञां कृत्वाऽपि ते साधवः दृढोपयोगाभावादनाभोगप्रमादादिवशाद्गुरोराशातनारूपमाचरणं कुर्युः । तस्माद् गुरुदेवानामवग्रहभूमौ प्रवेशकाले पापनिषेधे तत्प्रतिज्ञारूपे शब्दप्रयोगे च दृढ उपयोगः कर्तव्यः । तेनैव विपुलाऽशुभकर्मनिर्जरा भवति । यदि च ते दृढोपयोगं न बिभ्रति।। सामान्योपयोगमेव बिभ्रति, तदाऽऽशातनासंभवात् कर्मबन्धो भवति । ___इत्थञ्च गुर्वादीनामवग्रहप्रवेशे क्रियमाणो नैषिधिकीप्रयोगो विपुलनिर्जराकारी भवति, किन्तु स प्रयोगो।। विपुलनिर्जराकरणार्थं तस्य शिष्यस्य पूर्वप्रयत्नापेक्षयाऽधिक प्रयत्नं सहकारिकारणरूपमपेक्षते । अधिकप्रयत्नसंपादनाय च दृढोपयोगोऽतीवोपयोगी भवतीति तात्पर्यम् । ननु स साधुर्मुर्ववग्रहप्रवेशकाले नैषेधिकीप्रयोगमुपयोगदृढतां तीव्रप्रयत्नं वा न कुर्यात्, एवमेव गुरोरवग्रह प्रविशेत, तत्र च काऽप्याशातना यदि न भवेत्तदा को दोष इति चेत् । ___ "तदा तीव्रप्रयत्नः कर्तव्यः, उपयोगदृढता च कर्तव्या" इत्यादिरूपाया जिनाज्ञाया भङ्ग एव महान्दोषः ।। तथा "गुरोराशातनाया परिहारस्य परिणामः शिष्यस्य मनसि नैव वर्तत" इति तत्र निश्चीयते । एवञ्च गुरोराशातनाया भयमपि तस्य नास्तीति ज्ञायते । ततश्च "गुरोराशातना हेया" इति दृढो निश्चयो न तस्य विद्यते । तदभावे च EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SSSS555555550SSSS EEEEEEEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२८
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy