________________
प्रा
EEEEEEEEEEEEEEE BR333333300RRIERGREEEEEEEEEEEEEEEEEEE
REGREEREG78888800000raEETTEREEEEEEEEGrammar
mmmmmmmmmmmmmmm m mmmm निele सामायारी re
इदानी नैषेधिकीसामाचारी प्रारभ्यते । स एवं णिसीहिया कयपडिसेहस्सोग्गहप्पवेसम्मि । हंदि णिसीहियसद्दो उचिओ अण्णत्थजोगेणं ॥३०॥
आवश्यककार्यकरणार्थं गुर्ववग्रहाबहिनिर्गतः साधुर्यदा: गुरोरवग्रहे पुनः प्रविशति, तदा प्रथममवग्रहप्रवेशाय गुरोरनुज्ञां गृह्णाति । सर्वेषां पापानां निषेधं करोति । ततश्चोपयोगपूर्वकं गुर्ववग्रहप्रवेशसमये "निसीहि निसीहि निसीहि" इति यं नैषेधिकीशब्दप्रयोगं कुरुते, स एव नैषेधिकीसामाचारी गण्यते । ___ एवञ्च यदि गुरोरनुज्ञाया ग्रहणं यदि स न कुर्यात् । तदा यदि स सर्वाणि पापानि निषिध्येत्, उपयोगयुक्तो। भवेत्, शब्दप्रयोगमपि कुर्यात्, तथापि स नैषेधिकीसामाचारीपालको न भवति । ____ यदि च गुरोरनुज्ञां गृह्णाति । सर्वाणि पापानि निषिध्यति । शब्दप्रयोगमपि करोति । किन्तु । ॐ नैषेधिकीसामाचार्याः तात्पर्ये सम्यगुपयोगवान्न भवेत्, तदापि स नैषेधिकीसामाचारीमान्न भवति ।
यदि स गुरोरनुज्ञां गृह्णाति, शब्दप्रयोगं करोति, सम्यगुपयोगर्वांश्च भवति, तथापि यदि पापानि न निषिध्येत्, तदा स सामाचारीपालको न भवति ।
स गुरोरनुज्ञां गृह्णाति, सम्यगुपयोगर्वांश्च भवति, पापानि च निषिध्यति, तथापि यदि नैषेधिकीशब्दप्रयोगमेव। न कुर्यात्, तदा तु सोऽपि नैषेधिकीसामाचारीपालको न भवति ।
एष तावद् गुर्ववग्रहप्रवेशकालीना नैषिधिकीसामाचारी प्रतिपादिता। यदि स गुर्ववग्रहप्रवेशमकुर्वाण एव नैषेधिकशब्दप्रयोगं कुरुते, तदा स प्रयोगो नैषेधिकीसामाचारी न भवति ।
एवं गुर्ववग्रह इव देवाधिदेवावग्रहप्रवेशकालेऽपि नैषेधिकीसामाचारी ज्ञातव्या । नवरं तत्र जिनगृहे ।। की गुरोरभावात्तदा गुर्वनुज्ञाग्रहणं न भवति । केवलं जिनगृहे गमनार्थं गुरोरनुज्ञा गृह्यते इति बोध्यम् ॥३०॥
शिष्यः प्रश्नयति - नन्वेषा सामाचारी सामान्यतः साधूनामेव पालनार्थं प्रतिपादिता । साधवश्च कदापि पापकर्माणि नैव कुर्वन्ति । एवञ्च यदि ते बहिर्निर्गता अपि पापानि न कुर्वन्ति, तदा गुर्ववग्रहप्रवेशकाले पापनिषेधोऽपि तेषां कथं घटते ? पापानामेवाभावात् । नैषेधिकीप्रयोगो हि "अहं पापानां निषेधं करोमि" इति प्रतिज्ञारूप: स च पापानामेवाभावे पापत्यागाभावान्नैव युक्तः । श्रावकास्तु संसारे पापकर्मकारिणो भवन्तीति तेषां गुर्ववग्रहे देवावग्रहे च प्रवेशकाले पापकार्याणां निषेधरूपो नैषेधिकीप्रयोगो युक्तः न तु साधूनामिति ।
आचार्यः प्रत्युत्तरयति । के दढजत्तुवओगेणं गुस्देवोग्गहमहीपवेसंमि । इटुं इहराणिटुं तेण णिसेहो इह पहाणो ॥३१॥
यदुक्तं "सुसाधवः पापकर्मकारिणः नैव भवन्तीति गुर्ववग्रहप्रवेशकाले पापनिषेधाय शब्दप्रयोगो व्यर्थः" इति । तत्र सुसाधवः पापकर्मकारिणो न भवन्तीति सम्यक् । किन्तु प्रमाददोषादनाभोगदोषाद्वा तेषां पापानि संभवन्ति । यथा स्थण्डिलादौ गताः साधवः परस्परं विकथां हास्यादिकं वा कुर्वन्ति, मुक्तमनांसश्च भवन्ति ।
चिन्मुखवस्त्रिकोपयोगं विनापि परस्परं ब्रूवन्ति । कदाचिन्महता स्वरेण वातनिसर्गं कुर्वन्ति । कदाचिद्यत्र तत्र वा श्लेष्म निष्ठीवन्ति, पादेन च तत्श्लेष्म मृदा सह मिश्रं कुर्वन्ति । एतत्सर्वं गुर्ववग्रहे न युज्यते । यतो गुर्ववग्रहे विकथायां क्रियमाणायां गुरोर्व्याक्षेपो भवेत् । विकथाशब्देन व्याकुलीभूता गुरवश्चित्तस्यैकाग्रतां धर्तुं न
2 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७ BOSSAREERIERRESTEERTHERECRETREETTERRORIESSESETTERRORTERESHTRADE