SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 888 આવસહિ સામાચારી गमनागमनादीनि कर्तव्यानि । यदि हि कारणे सत्यपि स साधुर्गमनादि न कुर्यात् । तदा गमनादिजन्या गुणा न भवेयुः, जिनाज्ञालोपश्च कृतः स्यात् । किञ्च यदि स्थण्डिलं न गच्छति, स्थण्डिलशङ्कां निरुणद्धि । तदा तु मरणमेव स्यात्, उपाश्रय एव वा स्थण्डिलगमने संयमविराधना शासनविराधना च स्यात् । एवं प्रश्रवणनिरोधे क्रियमाणे चक्षुषो रोगा भवेयुः । यत्र तत्र वा प्रश्रवणे परिष्ठाप्यमाने पूर्वोक्ता एव संयमविराधनादयो दोषा भवेयुः । यदि च भक्तपानाद्यर्थं गमनागमनादिकं न कुर्यात्, तदाऽऽर्तध्यानादिना व्याप्तो महान्तं कर्मबन्धं कुर्यात् । स्वयमेव वा बुभुक्षितस्तृषालुश्च म्रियेत । ग्लानसाध्वाद्यर्थं भक्ताद्यानयनाय यदि न गच्छेत्, तदा साधर्मिकवात्सल्यवैयावृत्यादीनामपलापः कृतः स्यात् । तथा च सति सम्यग्दर्शनमेव मलिनं भवेत्, कुतस्तस्य चारित्रपरिणामशुद्धिः । तस्मात्कारणे सति गुर्वनुज्ञां गृहीत्वा सम्यगीर्यासमित्यादिपालनं कुर्वता, शास्त्रोक्ताऽऽवश्यककार्यकरणार्थमेव निर्गच्छता साधुनाऽऽवश्यकीशब्दप्रयोगपूर्वकमेव निर्गन्तव्यमित्यावश्यकीसामाचारीसंक्षेपार्थः । चतुर्थी आवश्यकीसामाचारी समाप्ता महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy