SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कृत्वाऽऽवश्यक FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE r आपAle सामायारी स एवमीर्यासमित्यादिपालनाभावेन गुर्वनुज्ञाऽभावेनानावश्यककार्यकरणेन वा युक्तो मुनिर्दोषबहुलो भवतीति प्रयोगं कर्वन्नपि तज्जन्यां निर्जरां नैव प्राप्नोति । प्रत्यत दोषपरिकलितः सन्महान्तं कर्मबन्धमेव विदधातीति तस्यावश्यकीप्रयोगकरणं निष्फलं विफलञ्च भवति । न चेदं मन्मन:कल्पनामात्रम् । किन्तु हरिभद्रसूरिभिरपीदमेवोक्तम् । ते च प्रतिपादयन्ति → ईयासमित्य1 पालनादिषु दोषेषु सत्सु क्रियमाण आवश्यकीशब्दप्रयोगो निरर्थकोऽनर्थकारी च भवति - इति । यदि हि सेव्यमानानां दोषाणां मनसि पश्चात्तापभावो भवेत् । आवश्यकीसामाचारीपालनस्य तीव्रोऽभिलाषो भवेत्, तदा तु दोषेषु सत्स्वपि स प्रयोगो भविष्यत्काले भावावश्यकीसामाचारीकारणं भवतीति द्रव्यावश्यकी कथ्यते । स च प्रयोगोऽनर्थकारी न भवति, निरर्थकोऽपि च न भवति । किन्तु पश्चात्तापादिनामभावे तु स प्रयोगो भविष्यत्काले भावावश्यकसामाचारीजनको न भवतीति द्रव्यावश्यकी न गण्यते । स च प्रयोगो निरर्थकोऽनर्थकारी च भवतीति विवेकः ॥२८॥ आवश्यकीसामाचारी खल्वपवादमार्गरूपेति दर्शयति । होइ अगमणए इरियाविसोहिसज्झायझाणमाइगुणा । कारणियं पुण गमणं तेण वि भेओ भवे आसिं ॥२९॥ ___ साधु हि सिद्धपदप्राप्त्यर्थं सर्वविरतिं पालयति । सिद्धपदप्राप्तिश्च योगनिरोधाद्भवति । तस्मात्साधुना। 1 योगनिरोधाभ्यासः कर्तव्यः । अत एव कारणं विना पदमात्रगमनमपि साधूनां प्रतिषिद्धम् । कारणं विनाऽङ्गलिमात्रचलनमपि मुनीनां निषिद्धम् । सर्वथा मनोवाक्काययोगानां निरोधं कृत्वा साधुना स्थातव्यम् । से इत्थञ्च गमनागमनादिक्रियां परित्यज्योपाश्रये योगगुप्तिं कृत्वा तिष्ठतः साधोर्बहवो गुणा भवन्ति । तथा हि गमनागमनक्रियायां योगादिनिमित्तक: कर्मबन्धो भवति । तदभावे तु स कर्मबन्धो न भवतीति प्रथमो गुणः । गमनागमनादिषु स्वाध्यायव्याघातो भवति, उपाश्रय एव तिष्ठतस्तु प्रभूतः स्वाध्यायः, तेन च निर्मलपरिणामस्तेन च महती निर्जरा भवतीति द्वितीयो गुणः । ___गमनागमनादिषु धर्मध्यानं ध्यातुं न शक्यते । स्थानस्थितस्तु साधुः प्रसन्नमनाश्चतुर्विधं धर्मध्यानं ध्यायन्परमपदमासन्नीकरोतीति तृतीयो गुणः । ___गमनागमनादिषु पिपीलिकादीनां विराधना संभवति, कण्टकादिना चात्मविराधनाऽपि संभवति । स्थान एव स्थितस्य तु गमनाद्यभावात्संयमविराधनाऽऽत्मविराधना च प्रायो नैव भवति । न ह्युपाश्रये स्थितानामाकस्मिक्यात्मविराधनाऽऽकस्मिकी वा संयमविराधना दृश्यते । गमनागमनादिषु तु ते द्वे अपि विराधने बहुशःशृयेते । इति प्रसिद्धमेवैतत् । इत्थञ्च प्रभूतगुणसद्भावाद् गमनागमनादिकं नैव कर्तव्यं, योगगुप्तिं कृत्वैववस्थातव्यमित्युसर्गो मार्गः । "इत्थञ्च प्रतिपाद्यमाने कदाचिच्छिश्याः गमनागमनादिकं सर्वथा पापमेव मा मन्यताम्" इति करुणापरोह गुरुरधुनाऽपवादं प्रदर्शयति । .. स्थण्डिलाय, प्रश्रवणपरिष्ठापनाय, भक्तपानाद्यानयनाय, गुर्वाज्ञापालनायानियतविहारकरणाय चावश्यं । 0503005555555555555555555ESSESSESENSESSES EFEEDIA महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २२५ PeeRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREEDS
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy