________________
EEEEEEEEEEEEEEEEEEE
BEEEEEEE
TETTERRIERRIERRIEDERARINEETITUTI आपसह सामायारी कदाचिद्दोषा भवन्ति, ते तु दोषाः तेषां साधूनां पश्चात्तापभावेन प्रतिज्ञापालने तीव्राभिलाषेन च प्रतिहताः सन्तो न तान्प्रत्यवायान्प्रयच्छन्ति । ये तु साधवः प्रतिज्ञां कृत्वाऽपि निरपेक्षा एव प्रतिज्ञाविपरीतमाचरणं कुर्वन्ति । र पश्चात्तापादिभावविरहिताश्च भवन्ति । तेषान्तु स प्रतिज्ञाभङ्गो महानर्थकारी भवत्येव । तस्मात्तात्पर्य सम्यग्विज्ञाय से प्रतिज्ञापालनेऽप्रमत्तेन भवितव्यम् । अनाभोगादितो दोषसद्भावे च प्रायश्चित्तादिकं करणीयं । न तु के प्रतिज्ञाकरणमेव परित्याज्यमिति भावः ।
यच्च भवता प्रतिपादितं यदुत "आवश्यककार्यमेव मया कर्तव्यमिति प्रतिज्ञामहं न करोमि, किन्तु कार्य र त्वावश्यकमेव करोमीत्यावश्यककार्यकरणजन्या निर्जरा भविष्यत्येव"इति, तदपि तवाज्ञानतासूचकम् ।
किं निगोदवर्तिनो जीवा कंचिदपि जीवं नन्ति ? किं मृषावादं वदन्ति ? किं वा परसंबन्धि तृणमपि गृह्णन्ति ? किं स्त्रियं प्रति विकारभाववन्तो भवन्ति ? किं धनादिपरिग्रहं कुर्वन्ति ? किं रात्रौ दिने वा कवलाहारं विदधति ? यदि नैवं, तदा ते साधव इव महाव्रतसम्पन्नाः सन्तः सर्वविरतिमन्त एव सञ्जाताः । तत्कि तेषां: सर्वविरतिपरिपालनजन्या महती निर्जरा न भवति ? कथं प्रकृष्टपुण्यानुबंधिपुण्यकर्मबन्धो न भवति ? त्वमेव कथयास्योत्तरम । यदि न जानासि? तहि शण । ते हि सर्वाणि पापान्यकर्वन्तोऽपि सर्वपापाकरणस्य प्रतिज्ञा न कुर्वन्ति । तस्माविरतिपरिणामविरहितानां तेषां पापत्यागेऽपि सर्वविरतिजन्या निर्जरा नैव भवति । प्रत्युत प्रतिज्ञाऽकरणात्मिकाया अविरतेः सकाशात्कर्मबन्ध एव भवति । एवञ्च प्रतिज्ञां विना क्रियमाणानां र सदनुष्ठानानामपि तथाविधमुत्कृष्टं फलं नैव भवति । सामान्यफलं तु न मनःसंतोषकारीति तत्परिगणनमेव न
क्रियते । व एवमत्राप्यावश्यकप्रतिज्ञामकृत्वाऽऽवश्यककार्यं विदधानाः साधवः सामान्यनिर्जरां प्राप्नुवन्तोऽप्यावश्यकप्रतिज्ञापूर्वकं क्रियमाणस्यावश्यककार्यस्य यत्फलं भवति, तन्नैव प्राप्नुवन्तीति कोटिधनसंप्राप्तिस्थाने रूप्यकमात्रं लभमानास्ते मूढा एव । न हि कोटिधनप्राप्त्यवसरं परित्यज्य रूप्यकं लभमानो लोके प्रशंसास्पदं भवत्यपि तु निन्दापात्रमेव भवति । इत्थञ्च प्रतिज्ञाकरणानन्तरं तदपालने ये प्रत्यवाया- भवन्ति, तेषां भयात्प्रतिज्ञात्यागो न युक्तोऽपि तु प्रतिज्ञापालन एव यतितव्यमिति पूर्वमेव प्रतिपादितं रहस्यं मनसि स्थिरीकर्तव्यम् ॥२७॥
शिष्यः प्राह - यः साधुः समित्यादिकं न पालयति, गुरोरनुज्ञां न गृह्णाति । अनावश्यककार्यमपि करोति, तथापि “सामाचारी मया परिपालनीया" इत्यध्यवसायात् आवश्यकीशब्दप्रयोगं करोति, तस्येर्यासमित्यादिपालनाभावजन्याः प्रत्यवाया भवन्तु, किन्तु शब्दप्रयोगजन्या निर्जरा तु कथं न भवेद्"- इति ।
आचार्यः कथयति । कुण य दोसबहुलभावा सामाचारीणिमित्तकम्मक्खओ।वयमेतं णिव्विसयं इच्चाइ सतंतसिद्धमिणं ॥२८॥
यथा हि शरीरान्तर्वतिना महारोगेण प्रतिरोम महापीडामनुभवन् रोगी शोभनवस्त्रं परिदधानोऽपि, मनोहारि च। से भोजनं भुञ्जानोऽपि मनसि तत्सुखं नैवानुभवति, प्रत्युत प्रतिसमयं पीडामेवानुभवति ।
REFERERESRGBROSEGEGREEEEEEEERRRIERRRRREEEEEEEEEEEEEEEETUREGETHERGESTEGGESTEEGREHEEGREECTUREGISTREGISTERESEREGREEEEEED
ಯುಯಿಯು
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२४ RESSETTERESEASEARTNERIESSERTERSesamesOSESSESSIOUSERECORREESORDER