________________
TEEVEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
W
mammarA TERIA आपale सामाचारी गण्यते ? यतस्तेन गुरोरनुज्ञा गृहीता । तथाविधशब्दप्रयोगश्च कृतः । समित्यादिपालनमपि च कृतम् । अनावश्यककार्यमपि किञ्चिन्महन्न कृतमपि तु विकथादिरूपमात्रमेवेति तस्यावश्यकीसामाचारीपालनं कथं न गण्यते ? - इति ।
आचार्यः स्पष्टयति । सा य पइण्णा तीसे भंगे किर पायडो मुसावाओ।ण यतं विणावि किरिया सुद्धाणंगं पहाणं ति ॥२७॥
"आवस्सहि" इति शब्दप्रयोगो न केवलं शब्दप्रयोग एव । किन्तु "बहिनिर्गत्याहमावश्यकमेव कार्य करिष्यामि, न पुनरनावश्यकम्" इति प्रतिज्ञारूप: स शब्दप्रयोगः । इत्थञ्च यथा व्रतं गृहीत्वा व्रतभङ्गकरणे महान् । दोषो भवति, तथैव व्रतस्वरूपामेव प्रतिज्ञां गृहीत्वा तदपालनद्वारा तद्भङ्गकरणे महान्दोषो भवति । तदुक्तं → आजम्मं जं पावं बंधइ मिच्छत्तसंजुओ कोइ, वयभंग काउमणो बंधइ तं चेव अट्ठगुणं - अत्र हि "मिथ्यात्वसंयुक्तो जीवो यावज्जीवं यत्पापं बध्नाति, तस्मादष्टगुणं पापं व्रतभङ्गकरणस्याभिलाषमात्रं कुर्वाणो बध्नाति" इति प्रतिपादितम् । यदि च व्रतभङ्गकरणाभिलाषमात्रेण महान्दोषो भवेत्, तदा निष्ठरेण मनसा व्रतभङ्गकरणे महत्तरो दोषः स्फुट एव ।
तथा प्रतिज्ञाभंगे प्रकट एव मृषावाद इति द्वितीयमहाव्रतभङ्गोऽपि भवति ।
ननु यद्येवमावश्यकीशब्दप्रयोगकरणानन्तरमनावश्यककार्यकरणे मृषावादादयो महान्तो दोषा भवन्ति, तदा तु सा प्रतिज्ञैव न ग्रहीतव्या । यतोऽनाभोगप्रमादादिवशात्संभवत्येवानावश्यककार्यकरणादिकं । तथा सति च प्रतिज्ञाभङ्गः, तेन च महान्दोषः । यदि च प्रतिज्ञैव न क्रियते, तदा त्वावश्यककार्यकरणे गुणः, कदाचिदनावश्यककार्यं भवेत्तदापि प्रतिज्ञाभङ्गः तज्जन्यदोषाश्च नैव भवेयुः । ततश्च "आवस्सहि" प्रयोगः एव न करणीयः इति अस्माकमभिप्राय इति चेत् व अहो भवतां निर्मला प्रज्ञा ! व्यापारे क्रियमाणे धनहानिसंभवोऽस्तीति तद्भयात् वणिजो वाणिज्यं
परित्यजन्ति किं? भोजने क्रियमाणे उदरगतरोगा संभवेयुरिति किं बुभुक्षवो भोजनं परित्यजन्ति ? वस्त्रपरिधाने । से क्रियमाणे तेषां मालिन्यमपि संभवेदिति किं सज्जना नग्ना एव पर्यटन्ति ? तस्मात् निर्जराकाडक्षी मुनिरवश्यं प्रतिज्ञारूपं शब्दप्रयोगं कुर्यादेव । तत्प्रतिज्ञायाश्च यथा भङ्गो न भवेत् तथैव प्रयत्नमपि कुर्यात् । यदि च तथा
सत्यपि प्रमादेनानाभोगतो वा केचिदतिचारा भवेयुः, तदा तु प्रायश्चितादिकरणेन तेषां विशुद्धिरपि स्यात्, से प्रतिज्ञापालनादिजन्या निर्जराऽपि च स्यात् ।
यस्तु मूढः प्रतिज्ञाभङ्गभिया प्रतिज्ञामेव न करोति, स तु प्रतिज्ञापालनाद्यध्यवसायविहीनः8 । प्रतिज्ञापालनादिजन्यां महतीं निर्जरां परित्यजति । तथा प्रतिज्ञाविरहितः स शृङ्खलयाऽनिबद्धो मर्कट इव यथा तथा
प्रवर्तमानो महान्तं कर्मबन्धं करोतीति कदापि प्रतिज्ञाभङ्गभिया प्रतिज्ञात्यागो न करणीयः । ये तु प्रतिज्ञाभङ्गे । प्रत्यवायाः प्रतिपाद्यन्ते, ते हि "प्रतिज्ञापालने साधवो निरपेक्षा निष्ठुरा वा न भवेयुः" इत्याशयेन प्रतिपाद्यन्ते ।
येन प्रत्यवायभिया ते साधवः प्रतिज्ञापालने दृढाध्यवसाया भवन्ति । तथा सत्यपि यदि तेषां प्रमादादितः
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२३ RESSSSSSSSSETTERSSETOOTHERRORESIDEREssamacaIEEEEEEEEEEEEEEEEEEEEEEEEEEEE