________________
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
r
सावरसहि साभायारी म लातुं गच्छामि, अहं ज्ञानोपार्जनार्थमन्यत्रोपाश्रये गच्छामि, अहं स्थण्डिलं गच्छामि, अहं गुरोरेव गोचरीमानेतुं ।
गच्छामि, अहं चैत्यानां वन्दनार्थं गच्छामि" इत्यादि कथयति । गुरुस्तु तस्य कपटभावमजानन्ददात्यनुज्ञाम् ।। 1 स तु गुरोरनुज्ञां गृहीत्वा बहिनिर्गत्य कदाचिद्भक्तानां गृहेषु पर्यटति । कदाचित्केनचित्स्त्रीजनेन सह वार्तालाप
करोति । कदाचिदेवमेव श्वापदवत्सर्वत्र पर्यटति । कदाचित्केनचित्श्रावकादिना सह संमीलन्स विकथादिकं । करोति । इत्थश्चात्र गुरोरनुज्ञां गृह्णनपि शास्त्रोक्तानामावश्यककार्याणां करणं न विदधाति । किन्त्वनावश्यककार्याणि करोतीति तस्य तथाविधशब्दप्रयोगः आवश्यकीसामाचारी नैव भवतीति ज्ञापनार्थं "आवश्यककार्यार्थमेव गच्छन्" इति विशेषणमपि सार्थकमेव। ___ यद्यपीदृशः साधुरावश्यकशब्दप्रयोगमेव प्रायो न करोति । यतो योऽनावश्यककार्येष्वपि लीनो भवेत्,
तस्यावश्यक्यादिसामाचारीपालनपरिणतिरेव कथं भवेत् ? तथापि दीक्षादिवसादारभ्य तेन सा सामाचारी से परिपालितेति तत्संस्कारवशादधुना तथाविधशुभभावविहीनोऽपि सन्करोति तथाविधशब्दप्रयोगं । किञ्चात्मानं सामाचारीपालने सुस्थितं स्थापयितुमिच्छन्नपि स तथाविधप्रयोगं करोत्येव । किन्तु बहिर्गत्वाऽनावश्यककार्यं । करोतीति तस्यावश्यकीसामाचारी शुद्धा नैव भवति । ___पुनरपि शिष्यः प्रश्नयति - ननु प्रभूतैः साधूभिः परिपूरिते गच्छे यदि सर्वे एव साधवो बहिनिर्गमनकाले
गुरोरनुज्ञां गृह्णीयुः । तदाऽनवरतं गुरुणा तेषामनुज्ञैव दातव्या भवेत् । इत्थञ्च तत्रैव निमग्नो 8 गुरुर्जिनशासनप्रभावनासूत्रार्थचिन्तनादिकं कथं कुर्यात् ? किञ्च वर्तमानकाले तु सर्वदा बहिर्निर्गमनकाले
गुरोरनुज्ञाग्रहणं प्रायोऽशक्यमेव प्रतिभातीति। __आचार्यः प्राह चिरकालादनुज्ञादानादिषु प्रवीणो गुरुः झटित्येव सर्वाणि कार्याणि समापयति ।। गीतार्थसंविग्नानां हि महान्तानि प्रभूतान्यपि कार्याणि स्वल्पकालमात्रसाध्यानि स्वल्पप्रयत्नसाध्यानि च ।
भवन्तीति न जिनशासनप्रभावनासूत्रार्थचिन्तादीनां व्याघातो भवति । र यदि च वर्तमानकाले सर्वदा सर्वसाधूभिर्बहिर्निर्गमनकाले गुरोरनुज्ञाग्रहणमशक्यमिव मन्येत । तदा त्वियं व्यवस्था संभवति यदुत गच्छाचार्यः कश्चित्स्थविरान् गीतार्थान् बर्हिनिर्गमनादिकतृणां साधूनामनुज्ञादानार्थं । स्थापयति । तेऽपि साधवः स्थविराणामनुज्ञां गृहीत्वा निर्गच्छति । ते च स्थविरा स्वयं गीतार्थाः, गुरुणा च । स्थापिताः इति तेषामनुज्ञा तत्त्वतो गुरोरेवानुज्ञा भवतीति न कश्चिद्दोषो भविष्यतीति तावन्ममाभिप्रायः । तत्त्वं गीतार्थाः विदन्तु । ___तथेदमपि स्मरणीयम् । यदुत साधुः प्रथममावश्यककार्यकरणार्थमेव निर्गतः, तस्य परिणामोऽपि शुभ एव।। किन्तु बहिर्निर्गमनानन्तरं परिचितश्रावकादिकं दृष्ट्वा तेन सह वार्तालापादिकं कुर्यात्, गोचरीस्थानेषु धर्मोपदेशं से दद्यात्, तदा त्वनावश्यककार्यं तेन कृतमिति कृत्वा तस्यावश्यकसामाचारी मिथ्यैव भवति । तस्माद् बहिनिर्गतः। साधुरावश्यककार्यं मुक्त्वा न किमपि कुर्यादिति जिनोपदेशः ॥२६॥
शिष्यो जिज्ञासां करोति → ननु बहिर्निर्गमनानन्तरमनावश्यककार्यकरणेऽपि प्रकृतसामाचारीपालनं कथं न
છે
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २२२ WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE