________________
HEEEEEEEEEEEEEEEEEEEEEEEEEE
LEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
AIRRITATERATURTHIARRITERTAITERRIERm मावा सामायारी की
अथावश्यकी चतुर्थी सामाचारी प्रारभ्यते । गच्छंतस्सुवउत्तं गुरूवएसेण विहियकज्जेण । आवस्सियत्ति सद्दो णेया आवस्सिया णाम ॥२६॥
साधुस्तावत्सर्वदा मनोवाक्कायगुप्तिमानेव भवति । यदा तु गोचर्यानयनस्थण्डिलगमनगुरुवैयावृत्यादीनि शास्त्रोक्तानि कार्याणि समापतन्ति । तदा स गुरोरनुज्ञां गृहीत्वा सम्यगीर्यासमित्यादिपालनपूर्वकमुपाश्रयाबहिर्निगच्छन् "आवस्सहि आवस्सहि आवस्सहि" इति शब्दानुच्चारयति । स एव प्रयोगः आवश्यकी। सामाचारी परिगणनीया ।
एवञ्च स साधुः शास्त्रोक्तानामावश्यककार्याणामभावेऽपि यत्किञ्चित्कार्यं समालम्ब्य गुरोरनुज्ञां गृहीत्वा । सम्यगीर्यासमित्यादिपालनपूर्वकं गच्छन्नपि तादृशशब्दप्रयोगं यदि कुर्यात्, तदापि प्रकृतावश्यकसामाचारीपालको नैव भवति ।
तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति, गुरोरनुज्ञामपि गृह्णाति । किन्तु गच्छन्स ईर्यासमित्यादीनां पालनं यदि न कुर्यात्, तदा स तदा तथाविधशब्दप्रयोगं कुर्वन्नपि प्रकृतावश्यकसामाचारीमान् नैव भवति । N तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति । गच्छन्स सम्यगीर्यासमित्यादिकं पालयन्नपि यदि गुरोरनुज्ञां न गृह्णीयात्, गुरुमपृष्ट्वैव यदि स निर्गच्छेत् । तदा तथाविधशब्दप्रयोगं कुर्वन्नपि स आवश्यकीसामाचारीमान्नैव। भवति ।
तथा स साधुरावश्यककार्यार्थमेव निर्गच्छति, गुरोरनुज्ञामपि गृह्णाति, सम्यगीर्यासमित्यादिकमपि पालयति, किन्तु प्रकृतशब्दप्रयोगं यदि न कुर्यात् तदापि स आवश्यकीसामाचारीपालको नैव भवति । ___इत्थञ्च चतुर्भिविशेषणैर्युक्त एव साधुरावश्यकीसामाचारीपालको भवतीति फलितम् । शास्त्रप्रतिपादितानामावश्यककार्याणां करणार्थमेव निर्गच्छन्, गुरोरनुज्ञां गृह्णन्, सम्यगीर्यासमित्यादिपालनं कुर्वन्, "आवस्सहि आवस्सहि आवस्सहि" इति शब्दप्रयोगं कुर्वन्साधुरावश्यकीसामाचारीपालको भवतीति भावः ।
अत्रेदं बोध्यम् । कश्चित्साधुर्बहिर्निर्गच्छन् प्रकृतशब्दप्रयोगं न करोति, तदोपाश्रयस्थः साधुः "गच्छन्नयं र साधुरावश्यकीसामाचारी विस्मृतोऽस्ति, तदहं तां स्मारयामि" इति चिन्तयित्वा तत्रोपविष्ट एव महता स्वरेण तथाविधशब्दप्रयोगं करोति । किन्तु स प्रयोगः आवश्यकीसामाचारीरूपो तस्य न भवति । यद्यपि स प्रयोगोऽनर्थकारी नास्ति, निष्फलोऽपि नास्ति, तथापि स प्रयोग आवश्यकीसामाचारीरूपेण न व्यवहीयते । यतो १ गच्छत एव तादृशप्रयोगः आवश्यकीसामाचारी गण्यते ।
शिष्यः प्रश्नयति - ननु किं गुरुरनावश्यककार्यार्थं गच्छतस्साधोरनुज्ञां ददाति ? नैव ददाति । तस्मात् । A "गुरोरनुज्ञां गृह्णन्" इत्येव विशेषणं वक्तव्यम्, "आवश्यककार्यार्थं गच्छन्" इति विशेषणं न वक्तव्यम् ।। 1 यतस्तविशेषणमत्रैवान्तर्भवतीति ।
अत्र आचार्यः प्राह । र संयमयोगेष्ववसीदन् साधुस्सदैव बहिर्गत्वा पर्यटनं कर्तुमेवेच्छन्तिष्ठति । स तु "अहं ग्लानार्थं प्रायोग्यद्रव्यं ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी.. २२१ MEERITUTRITREEEEEE84580000RRRRRRRRRRRRRREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE