________________
BEE તથાકાર સામાચારી
तथा गीतार्थसंविग्नस्य गीतार्थसंविग्नपाक्षिकस्य वा सोपयोगं कथ्यमाने वचने निर्विकल्पेन मनसा तथाकारप्रयोगः कार्य इति हि तीर्थकराणामाज्ञा । सा च पालिता सती महतीं निजरां प्रयच्छतीत्यपि सुप्रतीतमेव।
तथा गुरोर्विशुद्धप्ररूपणाकरणादिरूपाणां सुकृतानामनुमोदनमपि तथाकारप्रयोगेण भवति । सुकृतानुमोदनञ्च मोक्षबीजं । न हि सुकृतानुमोदनं विना मोक्षं प्रति पदमपि गन्तुं शक्नुवन्ति जनाः । तदुक्तं वैराग्यकल्पलतायां “दृष्ट्वा सदाचारपरान्जनान्या शुद्धप्रशंसान्विततच्चिकीर्षा सद्धर्मरागः स हि मोक्षबीजं न धर्ममात्रः प्रणिधान - रूपः” इति । अत्र हि सद्धर्मरागः परेषां सदाचारस्य सुकृतरूपस्य शुद्धप्रशंसायुक्ता या तत्सदाचारकरणेच्छा तद्रूपः प्रतिपादितः । सुकृतस्य शुद्धप्रशंसा सुकृतानुमोदनमेवेति युक्तं तस्य मोक्षबीजत्वम् ।
तस्मात्प्रतिपादितगुणानां प्राप्तिमिच्छता जीवेन गीतार्थसंविग्नानां गीतार्थसंविग्नपाक्षिकाणाञ्च सोपयोगं कथ्यमानेषु वचनेषु निर्विकल्पेन मनसा तथाकारप्रयोगरूपा, इतरेषाञ्च युक्तियुक्तेषु वचनेषु तथाकारप्रयोगरूपा तथाकारसामाचारी परिपालनीयेति निष्कर्षः ।
ननु “गीतार्थाऽसंविग्नादीनां त्रयाणां युक्तियुक्ते एव वचने तथाकारप्रयोगः करणीयः, न तु युक्तिविरहिते” इति यदुक्तं, तन्न संगच्छते । यतस्ते त्रयोऽपि वक्तारो जिनवचनमेव ब्रूवन्ति, जिनवचनञ्च सर्वमपि युक्तियुक्तमेव भवतीति तत्र युक्तिविरहितस्य वचनस्यैवाभावात्, तेषां वचनेऽप्यवश्यं तथाकार प्रयोगः करणीयो भवतीति चेत्,
न ।
श्रोतारमाश्रित्य हि पदार्था द्विविधा भवन्ति युक्तिग्राह्या आज्ञाग्राह्याश्च । तत्र ते त्रयोऽपि वक्तारो यदा “आत्माऽस्ति, स च परिणामिनित्योऽस्ति" इत्यादिरूपान् युक्तिग्राह्यान् पदार्थान् प्ररूपयन्ति, तदा तु तत्र युक्तीनां सत्वात्तथाकारप्रयोगः करणीयः । किन्तु यदा ते जिनाज्ञामात्रग्राह्यान् कार्मग्रन्थिकादिपदार्थान्प्ररूपयन्ति । तदा तत्र युक्तयो न विद्यन्ते, ततस्ते पदार्थाः कदाचिज्जिनवचनविपरीता अपि प्ररूपिता भवेयुः, यतः तेषां वक्तारोऽगीतार्था असंविग्ना वा सन्ति । यथा “पञ्चेन्द्रियतिरश्चां मूत्रादिषु संमूच्छिमतिर्यक्पञ्चेन्द्रियाः जीवा उत्पद्यन्ते" इत्यादि पदार्थान्ते भाषेरन् । तदा तत्र युक्तयस्तावन्न सन्त्येव । श्रोतारश्च सर्वेषामागमानां पदार्थान् न जानन्ति । अतस्तैस्तदा तथाकारो नैव कर्तव्यः, यतस्तानि वचनानि युक्तियुक्तानि तावन्न सन्त्येव। “जिनाग च ते पदार्थाः प्रतिपादिता न वा ?" इति निश्चयः श्रोतॄणां मनसि नास्ति, वक्तारश्चागीतार्थताऽसंविज्ञतादोषयुक्ताः सन्तीति तत्र तथाकारप्रयोगो नैव श्रेयान् । किं बहुना ? एतेषां त्रयाणां वक्तृणां युक्तियुक्तेषु वचनेषु तथाकारः कर्तव्यः, आज्ञामात्रग्राह्येषु तथाकारो न कर्तव्य इति तात्पर्यम् ॥२५॥
तृतीया तथाकारसामाचारी समाप्ता
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२०