________________
eee તથાકાર સામાચારી
तस्मात्स्वकदाग्रहं विमुच्य सोपयोगं ब्रुवाणानां संविग्नगीतार्थाणां संविग्नपाक्षिकगीतार्थानाञ्च वचनं तथाकारप्रयोगपुरस्सरं निर्विकल्पेन मनसा ग्राह्यम् ।
ये तु तेषां वचने रुचिं विदधाना अपि तथाकारप्रयोगादिकं न जानन्ति । ते व्यवहारप्रवीणताऽभाववन्तो यथायोगं तथाकारप्रयोगमकुर्वाणाः अपि मिथ्यात्वं न प्राप्नुवन्ति । किन्तु तथाकारप्रयोगपालनजन्यान् लाभान् परित्यजन्तीति प्रमादं मुक्त्वा तथाकारसामाचारीं सम्यग्ज्ञात्वा तदनुसारतस्तथाकारसामाचारी समाश्रयणीया ॥२४॥
ननु तथाकारप्रयोगपालने के गुणा भवन्ति ? अहो शिष्य ! किं जिनाज्ञापालनमेव महान्तं गुणं न पश्यसि ? येनान्यान्गुणानन्वेषयसि ? गुरो ! पश्यामि जिनाज्ञापालनं गुणं, किन्तु गुणान्तरान्ज्ञातुमिच्छामि ।
आचार्यो गुणान्तरान्कथयति ।
एत्तो तीव्वा सद्धा तीए मिच्छत्तमोहकम्मखओ । अण्णेसिं पि पवित्ती विणओ तित्थंकराणा य ॥२५॥
या क्रिया येन भावेन क्रियते, सा क्रिया तमेव भावं वर्धयतीति नियमः । यथा कामभावेन क्रियमाणमब्रह्म कालान्तरेऽधिकं कामरागं जनयतीति, यथा वा स्नेहभावेन क्रियमाणं पुत्रपालनमधिकं पुत्रस्नेहरागं जनयति । एवमत्रापि गुरुवचने श्रद्धापूर्वकस्तथाकारप्रयोगः सुविहितेन शिष्येन क्रियते । तस्मात्स प्रयोगः तामेव श्रद्धां तीव्रां करोति । तथा च जिनवचनेषु समुत्पन्नया तीव्रया श्रद्धया मिथ्यात्वमोहनीयकर्मणः क्षयो भवति । मिथ्यात्वमोहनीयकर्म हि कदाग्रहेण पुष्टं भवति । जिनवचनेषु जायमाना तीव्रा श्रद्धा कदाग्रहविरोधिनीति कदाग्रहहानौ मिथ्यात्वमोहनीयस्य हानिर्धुवैव । न तत्र कश्चित्सन्देहः ।
तथा यदा 'गीतार्थसंविग्नो गुरुर्वाचनां ददाति, तदा विनीतशिष्या नूतनशिष्या अन्येऽपि श्रावकाश्च तत्र श्रृण्वन्ति । तत्र विनीतशिष्यानां तावद्गुरौ गीतार्थतायाः संविग्नतायाश्च निश्चयो विद्यत एव यतस्ते प्रभूतकालतो गुरुणा सह संपर्कवन्तो विद्यन्ते । ये तु नूतनशिष्या नूतनश्रावकादयश्च तत्र श्रृण्वन्ति । तेषां तु तस्मिन्गुरौ गीतार्थसंविज्ञताया निश्चयो नास्तीति ते तद्वचनं निर्विकल्पं स्वीकर्तुं नोत्सहन्ते । यदा च रत्नाधिका विनीतशिष्या गीतार्थसंविग्नवचने हर्षोल्लासपूर्वकं तथाकारप्रयोगं कुर्वन्ति । तदा तान् तथा दृष्ट्वा नूतनशिष्याणां श्रावकाणाञ्च गीतार्थसंविग्नतायास्तस्मिन्गुरौ निश्चयो भवतीति तेऽपि तथैव गीतार्थसंविग्नवचनं निर्विकल्पेन मनसा स्वीकुर्वाणा भवन्ति । इत्थञ्च तेषामपि तीव्रा श्रद्धा, कदाग्रहहानिर्मिथ्यात्वहानि: सम्यक्त्वप्राप्तिश्चेति बहवो गुणा भवन्ति । तत्र निमित्तं च तथाकारसामाचार्येव भवतीति तथाकारसामाचारीं कुर्वाणानां परोपकारादिजन्योऽपि महागुणो भवति ।
किञ्च नूतना साधवः श्रावकाश्च प्रायः " कीदृशेन प्रकारेण गुरुवचनं श्रोतव्यम् " त्यादि न जानन्ति, न वा गुरुप्रसन्नताकरणोपायादिकं जानन्ति । ते तु तथाकारसामाचारीं कुर्वाणानां साधुनां तथाविधाचारं दृष्ट्वा तदैव च गुरोर्वर्धमानां प्रसन्नतां दृष्ट्वा स्वयमपि तथाकारसामाचार्यां दृढश्रद्धावन्तो निपुणाश्च भवन्तीति विशिष्टो गुणः ।
तथा गुरुवचने हर्षोल्लासपूर्वकं तथाकारप्रयोगस्तु गुरुं प्रति शिष्यस्य मनसि वर्तमानस्य भक्तिभावस्य व्यञ्जको भवति । गुरुविनयश्चात्र कृतो भवति । विनयश्च जिनशासने मूलं । विनयो हि शुश्रूषाश्रवणश्रुतज्ञान विरतिसंवरतपोनिर्जरायोगाभावद्वारा परमपदसंपादकः प्रशमरत्यादौ प्रतिपादितोऽस्तीति तत्रापि महान्लाभः ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • ૧૯