________________
SAEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEeeeeee
तथाकार साभाथारी
EEEEE
व प्रयोजनार्थं मूलोत्तरगुणविरहितस्यापि द्रव्यतो वन्दनदाने न कोऽपि दोषस्तथाऽत्रापि भावनीयम् ॥२३॥
शिष्यः प्राह → ननु गीतार्थसंविग्नोऽपि साधुश्छद्मस्थ एव, तथा गीतार्थसंविग्नपाक्षिको जिनवचनविपरीताचरणवानिति तयोरपि वचनानि जिनवचनविरुद्धानि कथं न संभवेद् ? - इति । ___आचार्यः समादधाति । नाणेण जाणइ च्चिय संवेगेणं तहेव य कहेइ । तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा ॥२४॥ ___यत्तावद् भवतोक्तं यथा “संविग्नगीतार्थोऽपि सर्वज्ञो नास्तीति तस्य वचनमपि जिनवचनविरुद्ध संभवति" इति, तत्राहं त्वामेव पृच्छामि । यदुतासर्वज्ञस्य वचनं जिनवचनविरुद्धं संभवतीति भवत्कथनमपि कथं 8 मृषा न स्यात् यतो भवानप्यसर्वज्ञ एव । ___शिष्यः प्राह-"ननु योऽसर्वज्ञः, तस्य वचनं जिनवचनविरुद्ध संभवत्येव । तत्र विचारावकाश एव नास्ति" इति । ___ गुरुस्तु प्राह "एवं तर्हि गीतार्थसंविग्नस्य सम्यगुपयोगपूर्वकं भाष्यमाणं वचनमपि जिनवचनानुसार्येव । भवति, तत्र विचारावकाश एव नास्ति" इति । ___किञ्च यथा पुरोवतिनं घटं दृष्ट्वा यदा भवान्प्रतिपादयति यदुत "भूतलं घटवत्" तदा यद्यपि भवानसर्वज्ञोऽस्ति, तथापि "तव वचनं मृषाऽस्ति" इति कोऽपि न मन्येत । तथा त्वमपि पितॄणा मातृणा वैद्येन शिक्षकेन चासर्वज्ञेन प्रतिपादितमपि वचनं स्वीकरोष्येव । किं तत्र त्वं काञ्चित्शङ्कां करोषि ? एवं तहि
जिनागमनां गूढरहस्यं सम्यग्जानाना ते गीतार्थाः पुरोवर्तिघटवत् सर्वान् शास्त्रीयपदार्थान्जानन्ति । हृदये 2 संवेगसद्भावाच्च मिथ्यावचनं नैव वक्तीति यद्यपि तेऽसर्वज्ञाः, तथापि तेषां वचनं जिनवचनानुसार्येवेति न तत्र काचिदपि शङ्का कर्तव्या ।
तथा "गीतार्थसंविग्नपाक्षिका जिनवचनविरुद्धाचारवन्त इति तेषामपि वचनं जिनवचनविरुद्धं संभवति" 1 इति यद् भवतोक्तं । तदपि न युक्तम् । यतो यथा स्वयमसाध्यमहारोगग्रस्तोऽपि महावैद्यो यदा परेषां शरीरे
वर्तमानस्य साध्यस्य तस्यैव रोगस्य चिकित्सां करोति, शिक्षाञ्च प्रददाति, तदा कोऽपि रोगी तद्वचने विपरीतत्वशङ्कां नैव करोति । प्रत्युत तस्य प्रत्येकवचनं सम्यक्स्वीकरोति, पालयति च । ___ एवमेव चारित्रमोहनीयोदयवन्तः संविग्नपाक्षिका जिनवचनविपरीतमाचार समाचरन्ति, तथापि ते परोपकारबुद्धिमन्तो यथार्थं जिनवचनं जानाना सम्यगेव निरूपयन्ति । ततश्च तेषां वचनमवश्यं जिनाग भवतीति तदपि निर्विकल्पेन मनसा स्वीकार्यम् ।
एतदेवास्यां गाथायां प्रतिपादितम् । गीतार्थसंविग्ना गीतार्थसंविग्नपाक्षिकाश्च सम्यग्ज्ञानेन सर्वान्शास्त्रीयपदार्थान्करतलगतपुस्तकवज्जानन्ति । संवेगयुक्ताश्च ते "यथा श्रोतृणां हितं भवति" तथैव से प्रतिपादयन्तीति सम्यगुपयोगपूर्वकमुच्चार्यमाणानि तेषां वचनानि जिनवचनानुसारिण्येव भवन्तीति सिद्धम्। ____ एवञ्च यदि तेषां वचनं जिनवचनरूपमेव भवति, तर्हि ये तस्मिन् वचने तथाकारप्रयोगं न कुर्वन्ति । तेषां । वचनं हृदयेन न स्वीकुर्वन्ति, ते तु परमार्थतो जिनवचनमेव तिरस्कुर्वाणा मिथ्यात्वं प्राप्नुवन्ति । PORRORDDRUDDDDDDDDDDDDmmeneD0TRUTORRCamera m mammeeraveenawaranand
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २१८ Ress
8 88ESSISTERESTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEB
EEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEE
355555555555555
GOGR3883