________________
HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE 3301888888888888ERRRRRRRRRRRECE
Mamma
m
तयार सामायारी Mera संविग्नसाधून्वन्दते । स्वस्य शिष्यं न करोति, किन्तु धर्मोपदेशेन बुद्ध्यमानान् मुमुक्षून् संविग्नगीतार्थस्य समीपे । प्रेषयति । तथा स्वयं जिनाज्ञाविरुद्धं यत्किञ्चिदाचरन्नपि शास्त्रानुसारि निरूपणं करोति । आत्मानं निन्दति ।। सोऽपि जिनशासने मोक्षमार्गानुसारी प्रतिपादितः । स च यथाशक्ति यां यतनां पालयति, सा यतना तस्मै महतीं। निर्जरां ददाति । संविग्नसाधुषु पक्षपातो हि चारित्रमोहनीयक्षयोपशमादिद्वारा संविग्नताजनक इति कृत्वा सोऽपि भविष्यत्काले यथायोगं पुनः संविग्नभावं प्राप्नोति ।
वर्तमानकाले तु संविग्नपाक्षिकरूपो व्यवहारो न दृश्यते, तथापि ये गीतार्थाः शास्त्रदृष्ट्याऽऽत्मानं संप्रेक्षमाणा जानन्ति यथा “नाहं संविग्नः, किन्तु संविग्नपाक्षिकसदृशो ममात्मा" इति, तदा तेऽपि प्रतिपादितानां संविग्नपाक्षिकाचाराणां मध्येऽन्यानाचारानपालयन्तोऽपि स्वदोषान् निर्दम्भभावेन प्रकटयन्तो विशुद्धप्ररूपणाद्वारा भावतः संविग्नपाक्षिकतां बिभ्रतीति दृष्टव्यम् ।।
इत्थञ्च शुद्धप्ररूपणैव संविग्नपाक्षिकाणां मुख्यो गुणः । स एव च तेषां भवोदधितरणपोतः । तस्मात्संविग्नपाक्षिकाणां सोपयोगं ब्रूवाणानां वचांसि नियमाज्जिनवचनानुसारीणि भवन्तीति कृत्वा तत्रापि निर्विकल्पेन मनसा तथाकारप्रयोगः करणीयः । ___ "अथ येऽगीतार्थाः संविग्नाः, गीतार्था असंविज्ञाः, अगीतार्था असंविज्ञाश्च वक्तारः, तत्र किं तथाकार: कर्तव्यः ? उत न ?" इति शङ्कायां प्रत्युत्तरयति ।
एतेषां त्रयाणां वचसि निर्विकल्पेन तथाकारो न कर्तव्यः । किन्तु सम्यक्चिन्तनीयं तेषां वचनं । यदि व तद्वचनं युक्तियुक्तं भवेत्, जिनवचनानुसारी भवेत् तदा तत्रापि तथाकारो विधेयः । यदि तु तत्र
जिनवचनविरोधस्य शङ्काऽपि भवेत्, तदा तु तथाकारो न विधेयः । किन्तु यदा सा शङ्का स्वयं चिन्तनेन । र गीतार्थसंविग्नपृच्छया वा नष्टा भवेत् तदैव तद्वचसि तथाकार: कर्तव्यः ।
तत्र यः संविग्नोऽपि सन्नगीतार्थः । स यद्यपि जिनवचनविपरीतं वचनं वक्तुं नैवेच्छति । किन्तु । जिनागमबोधाभावात्तद्वचांसि जिनागमविरुद्धानि संभवन्ति । यदि हि जात्यन्धो स्वयमपश्यन्नपि। धनुष्याबाणान्मुञ्चेत्, तदा यद्यपि तस्य संमुखानां मानवादीनां हिंसाया इच्छा नास्त्येव । तथापि तत्संमुखा जना बाणैर्विद्धा म्रियन्त एव । एवमत्रापि बोध्यम् । अत एव संविग्नोऽपि यद्यगीतार्थो भवेत् तदा स विषतुल्यो। वेश्यातुल्यो महाग्नितुल्यो महानर्थकारो गच्छाचारे प्रतिपादितः । तस्मात्तस्य वचनेषु युक्तिसद्भावे एव तथाकारप्रयोगो विधेयः । ___ यस्तु स्वयं गीतार्थोऽपि सन् संविग्नो न भवति, संविग्नपाक्षिकश्चापि न भवति । स तु
कीर्तिप्रतिष्ठादिलोभवान् स्वदोषान्गोपयितुमिच्छन् जिनवचनं सम्यग्जानानोऽपि जिनवचनविरुद्धं वदेत् । यथा 8 2 सावद्याचार्यो निजनिन्दादिरक्षणार्थं चतुर्थव्रतेऽप्यपवादं प्रतिपादितवान् । तस्मात्तत्रापि तथाकारो न कर्तव्यः ।।
यस्तु स्वयमगीतार्थोऽसंविग्नश्च, तस्य वचने तु सुतरां बहूनां दोषानां संभवात् तथाकारप्रयोगो नैव कर्तव्यः।।
सर्वत्र युक्तियुक्ते वचसि तथाकारकरणे न दोष इत्यपि दृष्टव्यम् । तथा तथाविधकारणवशात्प्रतिपादितानां त्रयाणां युक्तिविरहितेऽपि वचने रुचिं विनैव वाङ्मात्रेण तथाकारकरणेऽपि न दोषः । यथा जिनशासनरक्षादि
P
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१७
E RHEH E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE