SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ તથાકાર સામાચારી अथ तृतीया तथाकारसामाचारी निस्वयते । सच्चत्तपच्चयद्वं जं अटठे किर गुरूवइट्ठम्मि । रुइपुव्वं अभिहाणं लक्खिज्जइ सो तहक्कारो ॥२२॥ गुरुर्यदा वैयावृत्यादिकार्यं शिष्याय समर्पयति, तन्निवेदनञ्च करोति, तदा शिष्येणेच्छाकारः कर्तव्यः। यदा तु गुरुर्वाचनापृच्छनादिषु शास्त्रीयपदार्थान् निरूपयति, तदा "गुरूपदिष्टोऽर्थः सम्यगेव, न तु जिनागमविरुद्ध" इति ज्ञापनार्थं "हे गुरो ! यद् भवताऽधुनाऽयं पदार्थो निरूपितः, स तथैवास्ति । नात्र कश्चित्सन्देहः" इत्यादि वाक्यप्रयोगस्तथाकारसामाचारी गण्यते । स च प्रयोगः केवलं गुरोर्मनसि सुखोत्पादनाय न कर्तव्यः, किन्तु प्रथमं तस्मिन्पदार्थे शिष्येण श्रद्धा कर्तव्या, तदनन्तरं तयैव श्रद्धया स वाक्यप्रयोगः कर्तव्य इति भावार्थ: ॥२२॥ तत्र वाचनादिदातारो गुरवो पञ्च प्रकारा भवन्ति । (१) गीतार्थसंविग्नाः, (२) गीतार्थाः संविग्नपाक्षिकाः, (३) अगीतार्थाः संविज्ञा:, (४) गीतार्था असंविज्ञा:, (५) अगीतार्था असंविज्ञाश्च । तत्र केषां वचने कदा केन प्रकारेण तथाकारप्रयोगो विधेय इत्याह । कप्पाकप्पंमि ठियस्सुवओगे सव्वगुणवओ जइणो । वायणमाइम्मि हवे अविगप्पेणं तहक्कारो ॥२३॥ “के पदार्थाः साधूनां कल्प्या: ? के वाऽकल्प्या: ? को वा साधूनां कल्पः ? कोऽकल्पः ?" इत्यादि विभागं यः सम्यग्जानाति । तथा यो मूलगुणानामुत्तरगुणानाञ्च सम्यगाराधको भवति । तथा यो वाचनादिकाले सम्यगुपयोगपूर्वकं पदार्थान्प्ररूपयति । तदा तस्य वचने शिष्यः कामपि शङ्कामविधाय निःशंकेन मनसा तथाकारप्रयोगं कुर्यात् । अत्र कल्प्याकल्प्यज्ञाता गीतार्थ एव भवति । मूलोत्तरगुणाराधकश्च संविग्नो भवति । तथा च गीतार्थसंविग्नो मुनिर्यदा सम्यगुपयोगपूर्वकं पदार्थान्निरूपयति । तदा तस्य वचसि निर्विकल्पेन मनसा शिष्यस्तथाकारप्रयोगं कुर्यादिति भावार्थः फलितः । आवश्यकाद्यभ्यासक्रमतो निशीथपीठिकाया अध्येता जघन्यतो गीतार्थो भवेत्, यथाशक्ति जिनाज्ञां पालर्यंश्च संविग्न इति तात्पर्यम् । अत्र गीतार्थसंविग्नोऽपि यदाऽन्यत्रोपयोगवान् भवति, तदा सम्यग्पदार्थं जानानस्यापि तस्य वचांसि शास्त्रीयपदार्थविरुद्धानि संभवन्तीति तत्र तथाकारसामाचारी नैव कर्तव्येति सम्यगुपयोगपूर्वकं भाषमाणस्यैव गीतार्थसंविग्नस्य वचसि तथाकारप्रयोगोऽनुज्ञातः । अत्र च यद्यपि गीतार्थसंविग्नपाक्षिकस्य ग्रहणं न कृतम् । तथापि सोऽपि नियमात्ससूत्रभाषी भवतीति गीतार्थसंविग्नपाक्षिकस्य सम्यगुपयोगपर्वकं कथ्यमाने वचसि तथाकारप्रयोगः कर्तव्यः । अयं भावः-जिनवचने दृढानुरागं बिभ्राणोऽपि यो गीतार्थः शिथिलो भवति, स चारित्रधर्मे दृढानुरागवान् सन् चारित्रधर्मं न परित्यजति । किन्तु यदि स्वयं स साध्वाचारमपालयन्नपि स्वं साधुमिव लोके ख्यापयेत्, तदा मायापरवञ्चनादिदोषात्तस्याहितमेव स्यात् । एतच्च सम्यग्जानानः स गीतार्थः स्वं संविग्नपाक्षिकं ख्यापयति । स तु साधूनां श्रावकाणां वा केषामपि वन्दनं न स्वीकरोति । स्वयञ्च चारित्रधर्मे दृढानुरागवान् स क्षुल्लकानपि महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी ०२१७
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy