SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ મિચ્છાકાર સામાચારી 'बद्धानामप्यशुभकर्मणां क्षयो भवति, तथैव सर्वथा पापमकुर्वाणस्य प्रतिक्षणं वर्धमानविशुद्धिकस्य पूर्वभवेषु बद्धानामप्यशुभकर्मणां क्षयो भवत्येव । यथा हि पापं कृत्वा प्रायश्चितकरणं जिनाज्ञेति तामाज्ञां पालयतो महती निर्जरा । तथैव प्रथमं तावत्पापं न करणीयमेवेत्यपि जिनाज्ञेति तां पालयतोऽपि कथं महती निर्जरा न स्यात् ? प्रत्युत प्रायश्चित्तादिकरणार्थमनवरतं पापं कुर्वाणो यदि निष्ठुरो जायेत, तदा तु मायापरवञ्चनमिथ्यात्वादयो बहवो दोषास्तस्य संभवेयुः । पापमेवाकुर्वाणस्य तु न कोऽपि दोषः । तस्मात् पापं न करणीयमेवेत्येवोत्सर्गमार्गानुसारि प्रतिक्रमणमिति स्थितम् । अथ प्रमादादिदोषवशात्पापं भवेत्, तदा तु पश्चात्तापभावपूर्वकं मिथ्याकारप्रयोगकरणमपवादमार्गतः प्रतिक्रमणं भवति । तत्रापि य उपयोगपूर्वकं निष्ठुरपरिणामेन निष्कारणमेव पापं करोति, तस्य तु मिथ्याकारप्रयोगकरण मपवादतोऽपि प्रतिक्रमणं न भवति, किन्तु तस्य पूर्वं प्रतिपादिता मायादयो दोषा भवन्तीति प्रागेव प्रपञ्चतो वर्णितमस्ति । यस्तु मूढो ब्रूते "नाहं निष्ठुरपरिणामेन पापं करोमि, किन्तु तथापि पुनः पुनः स्त्रीमुखदर्शनादिकं भवतीति किं करोमि ?" इति । स तु मूढ एव । यतोऽनुपयोगतः पापं सकृद्विर्वा भवति । यत्तु पापमनेकशो भवति, तदुपयोगपूर्वकमेव भवति न त्वनाभोगतः । तस्मात्तस्यापि मिथ्याकारसामाचारी मिथ्यैव परिगणनीया । इदमत्र रहस्यम् । निकाचितचारित्रमोहनीयकर्मोदयवशात्केचित्सम्यग्दृशोऽपि साधवः "पापं नैव करणीयम्" इति मन्यमाना अपि निष्कारणमेव पापानि कुर्वन्ति । किन्तु तत्र पश्चात्तापभावादिवशात्सम्यग्दर्शनहानिर्न भवति । प्रत्युत तदेव सम्यग्दर्शनं पश्चात्तापभाववर्धनद्वारा क्रमशश्चारित्रपरिणाममपि जनयति । किन्तु यावत्कालं चारित्रमोहनीयोदयपरवशता भवेत्, तावत्कालं तैः पाल्यमाना मिथ्याकारसामाचारी यद्यपि तात्त्विकी नैव भवति । तथापि सा तात्त्विकमिथ्याकारसामाचारीजननी तु भविष्यत्काले भवत्येवेति कृत्वा सा न प्रतिषिद्धा। एवमेव मिथ्यात्वगुणस्थानवर्तिनामपि सरलतापापभीरुतामन्दमिथ्यात्वादिगुणवतां साधूनां तथाविधा सामाचारी तेषां हितकारिण्येव मन्तव्या । विचित्रो हि जीवानां परिणामः, तस्मात्पश्चात्तापभाव एव मिथ्याकारसामाचारीपरिपालनस्य योग्यतेति निष्कलङ्को मार्गः । 1 तस्मादैदंयुगीनसाधूभिः प्रथमं तावदोषपरिहारस्यैव प्रयत्नः करणीयः, किन्तु दुष्षमकालप्रभावाद् प्रमादविषयासक्तिप्रभृतिदोषवशवर्तिनां पुनः पुनः प्रायश्चित्तकरणेऽपि मिथ्याकारसामाचारीपालनेऽपि च भविष्यन्त्येव पुनः पुनस्ते दोषाः । दुर्जयोऽयं मोहराजः किन्तु पश्चात्तापभावं वर्धयित्वा पुनः पुनः प्रायश्चित्तादिकमवश्यं कर्तव्यम् । एवमेव क्रमशो दोषहानिद्वारा विनश्यन्ति सर्वेऽपि ते दोषाः । भविष्यत्यत्रैव भवे निर्मलतमं चारित्रम् । किञ्च वर्तमानकाले बकुशं कुशीलमेव वा चारित्रमस्तीति जिनागमः । तत्र कुशा कुशीलता वाऽनेकविधानां प्रभूतानामतिचाराणां संभवाद् ज्ञातव्या । चारित्रञ्च यावन्तो लघवो महान्तो वा दोषा सेव्यन्ते, पापकरणकालीनस्याशुभभावस्यापेक्षया तीव्रतरशुभभावसमन्वितैः तावद्भिरेव मिथ्याकारप्रयोगैः संभवेदिति संक्षेपः ॥२१॥ द्वितीया समाप्ता मिथ्याकारसामाचारी महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१५
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy