SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ EEEEEEEE WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE REEEEEEEEEE E E भिछाडार सामाचारी तान् दोषान्सेवन्ते, ते तु तदैव शुद्धप्ररुपणां कुर्वन्त्येव । यथा → न कल्पते खलु साधूनामिदृग्दोषसेवनम् । जिनैः र साधूनां निषिद्धमेव निष्कारणं विकृत्यादिभोजनं । तथापि वयमध्यात्मसुखमद्यापि न लब्धवन्तः, अत एव। वैषयिकसुखे विष्टाकल्पे शूकरा इव तद्दोषं सेवामहे । सर्वथा धिग्भवत्वस्मादृशान् जिनाज्ञाभञ्जकान्साधून् - 1 इति । इत्थञ्च ते श्रावकादयः सम्यक्प्ररूपणां श्रुत्वा सम्यग्जिनाज्ञां ज्ञात्वा तां स्वीकरोति, न तु मिथ्यात्वं से प्राप्नोतीति न पश्चात्तापभाववतां साधूनां परेषां मिथ्यात्ववर्धनरूपो दोषो भवति । किन्तु → यद्यहं वास्तविकजिनाज्ञां कथयिष्यामि, तदा श्रावका मामेव जिनाज्ञाविरुद्धवतिनं ज्ञात्वाऽवगणयिष्यन्ति । न मां वन्दनादिकं करिष्यन्ति । ममोपरि तेषां यः सद्भावोऽधुना वर्तते । सोऽपि में गमिष्यति । मत्समीपे दीक्षामपि न ग्रहीष्यन्तिइत्यादि चिन्तनेन भीता ये शुद्धप्ररूपणां न कुर्वन्ति । तेषां तु पश्चात्तापभाव एव नास्तीत्यवश्यं मन्तव्यं । ततश्च ते मिथ्यात्विन एव मन्तव्याः । ते तु परेषां मिथ्यात्वं श्री वर्धयन्त्येव । ये तु तात्विकपश्चात्तापभाववन्तोऽपि व्यवहारेऽकुशलाः प्रमादात् सम्यक्प्ररूपणां न विदधाति, तेषां यद्यपि सम्यक्त्वं विद्यते, तथापि शुद्धप्ररूपणाया अभावात् परेषां मिथ्यात्वगमनसंभवोऽस्तीति कृत्वा स दोषस्तु तेषां कथंचिन्मन्दरूपोऽपि भवतीति सूक्ष्मदृष्ट्या विभावनीयम् । न हि शुभभावमात्रेण संतोषः कर्तव्योऽपि तु सर्वत्र ई सम्यग्व्यवहारपालने भृशं यतितव्यमन्यथा प्रतिपादितरीत्या मुधैव दोषो भवेत् ॥२०॥ इत्थं तावत्सविस्तरं निश्चयव्यवहारमतद्वयं प्ररूप्याऽधुना सर्वदोषरहितमुत्सर्गमार्गरूपं प्रतिक्रमणं र विधिशुद्धमपवादमार्गरूपञ्च प्रतिक्रमणं प्रदर्शयति ग्रन्थकारः । तम्हा अकरणय च्चिय कहियं नु तए पए पडिक्कमणं । नो पुण उवेच्च करणे असइ करणे य पडिक्कमणं ॥२१॥ पापं कृत्वा मिथ्याकारप्रयोगदानानन्तरं पुनः पापसंभवे प्रतिपादिता दोषा भवेयुरित्युत्सर्ग मार्गस्तावदयमेव । यदुत पापमेव न करणीयम् । ___ ननु पापं कृत्वा प्रायश्चितकरणे महान्संवेगः समुल्लसति, यदि च पापमेव न क्रियते, तदा प्रायश्चित्तस्याप्यसंभवात्महान्संवेगः कथं भवेत् ? तदभावे च कथं तज्जन्याया महत्याः निर्जराया लाभः स्यात्? तस्मात्पापं करणीयमेव, येन पश्चात्तापो भवेत्, येन च महान्संवेग समुल्लसेत्, येन च महती निर्जरा स्यादिति चेत् । मूढोऽसि । “पापं कृत्वा यत्प्रायश्चितादिकं क्रियते, तेन को लाभो भवति?" इति भवन्तं पृच्छामि । किं यत्पापं कृतं, तज्जन्यस्याशुभकर्मबन्धस्य विनाशमात्रमेव भवति ? किं वाऽन्येषामपि पूर्वभवेषु बद्धानां कर्मणां क्षयोऽपि भवति? यदि प्रथमो विकल्पः तदा तु को नाम शुद्धं शरीरं स्वयमेव कर्दमे क्षिप्त्वा पुनः स्नानकरणेन। पूर्ववत्शुद्धं कर्तुं प्रयतेत ? तत्र तु कर्दमे शरीरक्षेप एव न कर्तव्य इति सर्वेषां विदुषां सम्मतम् । एवमत्रापि को नाम स्वयमुपयोगपूर्वकं पापं कृत्वा तदनन्तरं प्रायश्चित्तकरणेन विशुद्धो भवितुं यतेत ? मतिमान्हि पापाकरणेनैव। शुद्धस्तिष्ठति । यदि च द्वितीयः पक्षः, सोऽपि न पापस्य करणीयत्वं साधयति । यतो यथा प्रायश्चित्तादिना पूर्वभवेषु । हहहहहहह REEN BlackGREERSEEE PRESENTERESTERIENCE R TERecemerswwwwwwwwwwwwws हामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २१४ MEERUSSETTEESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy