________________
NEETIREEEEEEEEEEEEEEEEEEEEEEEEE N मिछार सामायारी न करोति, स मिथ्यादृष्टिर्भवति । न केवलमसौ मिथ्यादृष्टिरेवापि तु महामिथ्यात्वी । यतोऽन्ये मिथ्यात्विनः परेषांक मिथ्यात्वं न वर्धयन्ति । अयं तु परस्य शंकां जनयन् परस्य मिथ्यात्वं वर्धयति । . है तथा हि भोजनासक्तिपरवशः कश्चित्साधुः कुत्रचित्स्थाने गत्वा प्रभूतं मिष्टान्नं गृह्णाति । स तु
श्रांवकश्चिन्तयति "किं परमात्मना प्रभूतमिष्टान्नभोजनं साधूनामनुज्ञातं ? यद्वा अयमेव साधुर्जिनाज्ञामुल्लङ्घय। प्रभूतमिष्टान्नं गृह्णाति ?" इति । तत्र च साधुस्तथा मायां कुर्यात् यथा स श्रावकः पश्चादिदमेव मनसि निश्चयं कुरुते, यथा "नाऽयं साधुर्जिनाज्ञाभङ्गकारी, किन्तु परमात्मना प्रभूतमिष्टान्नभोजनं साधूनामनुज्ञातमेव" इति । र इत्थञ्च या खलु जिनाज्ञा नास्ति, तामेव स श्रावको जिनाज्ञां मन्यत इति स साधुरेव तस्य मिथ्यात्वस्य वृद्धि प्रति निमित्तमभूत् ।
एवं स्त्रीभिस्सहैकान्तेऽनेकान्ते वा प्रभूतकालं यावद् वार्तालापादिकं कुर्वाणस्य साधोर्दर्शनं कृत्वा कश्चित्श्रावकस्तत्रापि चिन्तयति - "किं परमात्मना ब्रह्मचारिणां यूनां साधूनां सुरुपाभिस्त्रीभिस्सह वार्तालापादिकरणस्यानज्ञा दत्ता ? किं वाऽयमेव साधर्वासनासंतोषार्थं विपरीतमाचरति ?"इति । तत्रापि सः B मायावी साधुः "अहं तु धर्मकथां करोमि, मुमुक्षुस्त्रीणां प्रतिबोधं ददामि । अतीवदुःखिता खल्वेताः, को मां र विना ताभ्यः सम्यक्शिक्षां दद्यादिति परोपकाराय करोम्यहं वार्तालापादिकम्" इत्यादिकपटं करोति । ततश्च।
श्रावको मन्यते "ननु साधूनां स्त्रीभिस्सह परोपकारादिकरणाय प्रभूतकालं यावद् वार्तालापादि समनुज्ञातमेवेति न साधूनां दोषः" इति । इत्थञ्चात्रापि जिनाज्ञाविरुद्धं स्त्रीसंपर्कादिकं जिनाज्ञां मन्यमानस्य श्रावकस्य मिथ्यात्वं से भवति । तन्निमितञ्च स साधुः । एवं जिनाज्ञाविरुद्धमाचरणं कुर्वाणाः साधवः सर्वत्र परेषां मिथ्यात्वं वर्धयन्तीतिर
स्थितम् । ततश्च युक्तमेव तेषां साधूनां महामिथ्यात्वम् । व इत्थञ्च ये स्वयं निर्ध्वंसपरिणामाः कपटादिकं कृत्वा परानपि मिथ्यात्वं प्रापयन्ति, ते महापापाः। से परेषामनन्तसंसारं वर्धयन्तः स्वयमपि दुरन्तानन्तसंसारं समर्जयन्त्येव । जिनाज्ञा हि चक्रवर्तिपदस्थानीया, तदाराधना यथा महत्फलं ददाति, तथैव तद्विराधना महानर्थमपि ददाति, न हि जिनाज्ञाद्रोहं कुर्वाणानाम् । स्वप्नेऽपि सुखसंभव इति सर्वत्र जिनाज्ञापालनकटिबद्धेनैव साधूना भवितव्यम् । प्रमादादिदोषवशासमुत्पद्यमानाना मतिचाराणां गीतार्थगुरुसमीपे विशुद्धतमं प्रायश्चितमङ्गीकरणीयम् । प्रायश्चितमकुर्वाणानां सशल्यानां घोरतपोऽनुष्ठानादिकरणेऽपि लक्ष्मणासाध्वीवत् नाध्यात्मसंप्राप्तिः संभवतीति दृढं निश्चेतव्यम्।। __व्यवहारनयस्तु ब्रूते → निश्चयनयेन यत्प्रतिपादितं, तत्सर्वमेव ममापि सम्मतं । किन्तु यत्तेन प्रमादवशतो। दोषान्सेवमानानां प्रायश्चित्तादिभाववतामपि साधूनां मिथ्यात्वं प्रतिपादितं, तत्तु न मह्यं रोचते । ये साधवो निष्ठुरपरिणत्या पुनः पुनर्दोषान् सेवन्ते, तेषां तावन्मिथ्यात्वं ममापि सम्मतं । किन्तु पश्चात्तापभाववतां प्रमादिसाधूनां तु दोषसेवनेऽपि सम्यक्त्वं विद्यत एव । तदेव सम्यक्त्वं पश्चात्तापभावं जनयन्सन् क्रमेण विशुद्धचारित्रमपि जनयिष्यत्येव।
तथा ये साधवो निष्ठुरपरिणत्या प्रभूतमिष्टान्नभोजनस्त्रीसंपर्कादिदोषान् सेवन्ते, ते तावदवश्यं परेषां मिथ्यात्वं वर्धयन्त्येव ।
किन्तु ये साधवो हृदये तान् दोषान् प्रति धिक्कारभावं बिभ्राणा अपि प्रमादवशादासक्तिवशात्स्नेहवशाद् वा
SEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१३ RessesGEETROOTARRESTERRITERESTTERTERESTIGETSTERTTERTERESERTREEEEEEEEEEEEEE