________________
GEEEEEEER
m
mmmmmmmmmmmmm भि91812 सामायारी ___ अधुना तु येन प्रकारेण दोषासेवने दोषा भवन्ति, तत्प्रकारं प्रतिपादयति ।
तत्रानाभोगतः प्रमोदतो निष्ठुरपरिणत्या वा दोषसेवनं भवति । तत्र निश्चयनयो ब्रूते → पापं कृत्वा । मिथ्याकारप्रयोगं कृत्वा पुनरपि यद्यनाभोगतः प्रमादतो निष्ठुरपरिणत्या वा केनापि प्रकारेण यदि स मुनिर्दोषं का सेवेत, तदा तेन मिथ्याकारप्रयोगकाले गृहीतस्याकरणनियमस्य भङ्गः कृतो भवति । इत्थञ्च तस्य ।
मृषावाददोषोऽपि भवति । तथा यदि स निष्ठुरपरिणत्या पापं सेवित्वा, केवलं गुर्वादिरञ्जनार्थं प्रायश्चित्तं करोति, पश्चात्पुनस्तं दोषं तथैव सेवते, तदा तु स मायाकार्येव भवति । “यद्यहं प्रायश्चितं न कुर्याम्, तदा गुरवो मां पापिष्ठं ॐ मन्येयुः, प्रायश्चितकरणे तु ते मां निर्दोषं मन्येयुः" इति चिन्तयित्वैव तेन प्रायश्चितं कृतम्, न तु तस्य मनसि
दुष्कृतं प्रति धिक्कारभावो वर्तते । अत एव स पुनरपि तं दुष्कृतं सेवत इति तन्मनसि मायैव विद्यत इति ज्ञायते। तथैवं प्रायश्चित्तादिकं कृत्वा स गुरुं वञ्चयतीति परवञ्चनदोषोऽपि स्फुट एव । तथा त्याज्यमपि तत्पापं स तु सेवनीयमेव मन्यते, तस्मात्त्याज्यवस्तुन्युपादेयबुद्धिमतस्तस्य मिथ्यात्वगुणस्थानप्राप्तिरपि सुलभैवेति । निष्ठुरपरिणत्या पुनर्दोषासेवनं कुर्वतो नियमान्माया परवञ्चनं प्रथमगुणस्थानसद्भावश्चैते दोषा भवन्ति।
ये तु विकृतिसेवन-विकथाकरण-प्रभूतकालनिद्रा-स्त्रीमुखदर्शनादीनि दुष्कृतानि प्रति धिक्कारभाववन्तोऽप्यनाभोगतो भोजनासक्त्या राजकथादिरसेन स्वाध्यायादियोगेषु रुच्यभावेनानादिकालीनवासनादोषेन वा तानि से दुष्कृतानि सेवन्ते, तदनन्तरं सरलमानसाः मिथ्याकारप्रयोगं कुर्वन्ति । पुनरपि तमेव प्रमादादिकमवलम्ब्य पुनरपि दोषं सेवन्ते, पुनरपि पश्चात्तापं कुर्वन्ति, पुनर्दोषं सेवन्ते । ते नटा इव मोहराजेन नृत्यं कार्यमाणा अपि मनसि भृशं पश्चात्तापवन्तो भवन्ति । यथा हि कारवासे बद्धोऽपराधी बहिनिर्गन्तुमिच्छन्नपि शृंखलाबद्धः सन्न निर्गन्तुं शक्नोति । तथैवैते दोषान्त्यक्तुमिच्छन्तोऽपि निर्दोषं जिनाज्ञापालनं कर्तुमिच्छन्तोऽपि मोहोदयादिवशतः पुनः पुनः तानेव दोषान् सेवन्ते ।
इत्थञ्च यद्यपि तेषां सम्यग्दर्शनकार्यभूतस्य पश्चात्तापस्य सद्भावात् सम्यग्दर्शनं विद्यते । तथापि किं तेन सम्यग्दर्शनेन ? यः सर्वदोषत्यागरूपं चारित्रं न जनयति । किं तेन वह्निना ? यो मन्दीभूतः सन् पाकादिकार्य न करोति, शीतकाले शीतं नापनयति । यथा हि लोके छायादिकमददानो वृक्षो वृक्षो न गण्यते, प्रजामपालयनराजा
राजा न गण्यते, एवमेव पापत्यागमजनयत्सम्यग्दर्शनमपि सम्यग्दर्शनं नैव गण्यते । 1 तथा च यथाऽतीवजीर्णवस्त्रपरिधानं कुर्वन् वस्त्रवानपि नग्नो गण्यते, रूप्यकादिमात्रधनवान् निर्धन एव
गण्यते, अत्यन्तमन्दबुद्धिमान्जीवोऽपि जडो गण्यते, तथैव सर्वविरतिरूपं कार्यमजनयत्सम्यग्दर्शनं बिभ्राणोऽपि मिथ्यात्ववानेव गणनीयः ।
इत्थञ्च प्रमादादितो दोषान्सेवमानानां प्रायश्चितादिभाववतां माया परवञ्चना च भवतु मा वा, मिथ्यात्वं तु भवत्येव - इति ।
एष सर्वोऽपि निश्चयनयाभिप्रायः ॥१९॥
तदेव निश्चयनयमतमाश्रित्य श्रीभद्रबाहुस्वामिना प्रतिपादितां गाथां वर्णयति ग्रन्थकृत् । जो जहवायं न कुणइ, मिच्छदिट्ठी तओ हु को अन्नो । वड्इ य मिच्छत्तं परस्स संकं जणेमाणो ॥२०॥
यः सर्वविरतिग्रहणकाले त्रिविधयोगेन त्रिविधकरणेन च सर्वपापत्यागं कृत्वा पुनः पापं सेवते, यथावादं
EEEEEEEEEEEEEEEEEEEE
BREERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREERGES
LEESEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१२ BroscommaseORRORRERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRCareer