________________
EGGESE
મિચ્છાકાર સામાચારી
सिध्यन्ति ।
किन्तु यदा महारोगवृद्धत्वमंदक्षयोपशमादिकारणवशात्शास्त्रोक्तानि कार्याणि शास्त्रोक्तविधिना कर्तुं न शक्यन्ते, तदा तत्र शास्त्रप्रतिपादितनीत्यैव द्रव्यक्षेत्रकालभावानुसारतोऽल्पा मध्यमा महान्तो वा दोषाः सेव्यन्ते । यथा महारोगदशायां तथाविधौषधाद्यर्थं त्रिः पर्यटने क्रियमाणेऽपि यदा प्रायोग्यमौषधादिकं न प्राप्यते, तदाऽऽधाकर्मादिदोषदुष्टमपि तत्स्वीक्रियते । तथा वृद्धत्वादिवशाद् विहारकरणस्याशक्तौ सत्यां स्थिरवासः क्रियते, तथा कुत्रचिद्ग्रामादौ गोचर्यां दुर्लभायां सत्यामभ्याहतादिदोषदुष्टाऽपि गोचरी स्वीक्रियते इत्यादि । इत्थञ्च यदा कारणवशान्निर्दंभभावेन दोषाः सेव्यन्ते, तदा तेषां दोषाणामासेवनमपवादमार्गो भवति । येष्वनुष्ठानेषु जीवानां प्रायोऽशुभ एव भावः समुत्पद्यते, तान्यनुष्ठानानि गाढकारणवशान्निष्कपटभावेन सेव्यमानानामुनीनामपवादमार्गे भवतीति तात्पर्यम् । अत्र हि दोषसेवनेऽपि सुविहितमुनीनां हृदये महान्पश्चात्तापभावो भवति । अत एव येन कारणेन स दोषः सेव्यते, तत्कारणं यदाऽपगच्छति, तदा झटित्येव ते मुनयस्तद्दोषसेवनमपि परित्यजन्ति । ये तु दोषसेवनप्रयोजकस्य रोगादिकारणस्य विनाशेऽपि तमेव दोषं सेवमाना एव तिष्ठन्ति तेषां तु तद्दोषासेवनमपवादमार्गे न भवत्यपि तून्मार्ग एव ।
इत्थञ्च ये दोषा अपवादमार्गरूपाः ते दुष्कृतरूपा न भवन्तीति तेषां प्रायश्चित्तमपि नैव भवति । यत्तु तेषामपि अपुनर्बन्धकादीनां प्रायश्चितं गीतार्थैः दीयते, मुनिभिश्च क्रियते, तत्तु तेषां दोषाणामासेवनेऽनाभोगप्रमादादिवशतो यज्जिनाज्ञाविरुद्धमाचरितं भवेत्, यदपवादमार्गविमुखमाचरितं भवेत्, तस्यैव प्रायश्चितं दीयते क्रियते वा । तथा यद्यपि तेऽपवादमार्गरूपेण सेव्यमाना दोषा दुष्कृतरूपा न भवन्ति, तथापि तेषु दोषेषु या हेयताबुद्धिः स्वमनसि वर्तते, तस्याः संरक्षणार्थं निजपरिणामविशुध्ध्यर्थं च तत्र प्रायश्चितं क्रियत इत्यपि दृष्टव्यम् । यदि हि तेषामपवादमार्गरूपाणामपि दोषाणां प्रायश्चित्तादिकं न क्रियेत, तदा तु पश्चाद्रोगादिकारणाभावेऽपि तद्दोषासेवने भयं न स्यात् । प्रायश्चित्तादिके तु क्रियमाणेऽनवरतं तेषां दोषाणां त्यागकरणस्यैवाभिप्रायो वर्धत इति रोगादिकारणविनाशे सहसैव तद्दोषसेवनमपि त्यक्तुं शक्यते मुनिभिः ।
इत्थञ्चापवादमार्गरूपाणां दोषाणां मिथ्याकारप्रयोगं कृत्वा पुनरपि तेनैवापवादमार्गरूपेण तेषां दोषाणामासेवने न कोऽपि दोषः । यदि च रोगादिकारणं यावज्जीवभावि स्यात्, तदा दोषदुष्टौषधादिसेवनमपि यावज्जीवमेव तैः क्रियते, तस्य प्रायश्चितमपि क्रियते, हृदये तत्पश्चात्तापोऽपि तेषां वर्तत इति यावज्जीवं तेषां दोषाणामासेवनेऽपि परमार्थतः केऽपि दोषा न भवन्ति ।
यदि च ते तेषां दोषाणामासेवने निष्ठुरा भवेयुः । शास्त्रोक्तां त्रिः पर्यटनादिरूपां यतनां न पालयेयुः । तदा तु तद्दोषसेवनमुन्मार्गरूपमेव भवति । अत एवापवादमार्गपरिपालनमतीव दुष्करं । सततं कारणवशाद्दोषसेवनं करणीयं, सततञ्च तत्र पश्चात्तापादिभावो रक्षणीयः, कारणनाशे सत्येव झटित्येव मनोरमोऽपवादमार्गः परिहरणीय इत्यादिरूपा जिनाज्ञाऽऽसन्नभव्यैरेव पालयितुं शक्या ।
एष तावत्शास्त्रोक्तकारणवशाद्दोषसेवनरूपोऽपवादमार्गः प्रतिपादितः । तत्र च पुनः पुनर्दोषसेवनेऽपि न कश्चिद्दोष इति विवेचितम् ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २११