________________
eeee મિચ્છાકાર સામાચારી
व्यवहारनयस्तु पूर्वमेव प्रदर्शितः तथापि तत्रैतावान्विशेषः । यदुत ये प्राकृतप्रयोगस्य गूढार्थं जानन्ति, तेषां यदि प्राकृतप्रयोग इव गुर्जरादिप्रयोगेऽपि तथाविधगुरूपदेशादिवशात्तादृश एव शुभो भावो भवति, तदा ते कमपि प्रयोगं कुर्वन्तु । सर्वत्र फलस्य प्राप्तिर्भविष्यत्येव ।
ये तु प्रतिपादितं प्राकृतप्रयोगस्य गूढार्थं न जानन्ति । तेषां यद्यपि ज्ञानिसदृशः शुभो भावो न प्रादुर्भवति। तथापि यदि ते कमपि प्रयोगं न कुर्युः, तदा तु लेशोऽपि शुभो भावो न भवेत् । यदि प्राकृतप्रयोगं कुर्युः, तदापि ज्ञानाभावात् तथाविधः शुभः भावो न भवेत् । तस्मात् तेषामज्ञानिनां यस्मिन्प्रयोगे क्रियमाणे शुभः भावो वर्धते, स प्रयोगः कर्तव्यः, येन ज्ञानिवत्संपूर्णनिर्जरादिफलाभावेऽपि निजभावानुसारेण किमपि फलं मोक्षबीजादिरूपं संपद्येत । इत्थञ्च ज्ञानिनामज्ञानिनाञ्च सर्वेष्वपि प्रयोगेषु पात्रता भवतीति मन्तव्यम् । इत्थमेव तेऽज्ञानिनः क्रमशो ज्ञानिनो भूत्वा महतीं निर्जरां प्राप्स्यन्तीति न तेषां सर्वथा मिथ्याकारसामाचारीपालनेऽयोग्यता परिगणनीयेति । इत्थं निश्चयव्यवहारयोर्विरुद्धं प्रतिपादनं श्रुत्वा व्याकुलीभूतः शिष्यः प्रश्नयति भगवन् ! मया तु किं कर्तव्यम् ? किं निश्चयनयोऽनुसरणीयः ? किं वा व्यवहारनयः ← इति ।
आचार्यः कथयति → भवता तु प्रमाणभूतं जिनशासनमेवाङ्गीकरणीयम् । तथाहि - येन प्रकारेण तव शुभो भावो वर्धते, निर्जरा विपुला भवति, तेन प्रकारेण प्रवर्तितव्यम् । यदि त्वमधुना प्राकृतप्रयोगस्य सम्यगर्थं न जानासि, जानानोऽपि वा तेनार्थेन तवात्मा भावितो नास्ति, तदा त्वधुना गुर्जरप्रयोगे प्राकृतप्रयोगेऽन्यस्मिन्वा प्रयोगे यत्र तव भावो वर्धते, तमेव प्रयोगमादरेण कुरु । यदा च तवात्मा मदुपदेशादिवशाद्गूढार्थेन भावितो भवेत् तदाऽपि यस्मिन्प्रयोगे तवाधिकोऽभावो भवेत्, तमेव प्रयोगमाचर । रागद्वेषौ यथा यथा हीनौ भवेत्तथैव प्रवर्तितव्यमिति हि जिनशासनं भवताऽङ्गीकर्तव्यम् ← इति ॥ १८ ॥
शिष्यः प्रश्नयति
ननु "पापाकरणनियमसंगत एव मिथ्याकारप्रयोगो विशिष्टनिर्जराकारी" इति प्रतिपादितम् । तत्र पापाकरणनियमस्याग्रहः किमर्थं क्रियते ? यदि मिथ्याकारप्रयोगं कृत्वा पुनः पापं क्रियते, तदा को दोषो भवति ? इति जानातुमिच्छामि ← ।
आचार्यः प्रत्युत्तरयति ।
आभोगा पुणकरणे नूणं मिच्छूक्कडं भवे मिच्छा । माया नियडी य तओ मिच्छत्तं पिय जओ भणियं ॥१९॥
दुष्कृतकरणानन्तरं मिथ्याकारप्रयोगं कृत्वा पश्चात्पुनराभोगपूर्वकं तत्पापं यदि क्रियते, तदा तु स मिथ्याकारप्रयोगो निश्चितमेव निष्फलो भवेत् । न केवलमेतावदेव, किन्तु माया परवञ्चनं मिथ्यात्वञ्चैते त्रयो महान्तो दोषास्तत्र भवन्ति । यतः श्रुतकेवलि श्रीभद्रबाहुस्वामिना इदमनन्तरगाथायां प्रतिपादयिष्यमाणं कथितमिति गाथासंक्षेपार्थः ।
भावार्थस्त्वयम् । यान्यनुष्ठानानि निर्दोषगोचरीविशुद्धप्रतिलेखनस्वाध्यायवैयावृत्य-अनियतविहारगुरुभक्तिषड्विधावश्यककरणादीनि जिनागमे साधूनां करणीयत्वेन प्रतिपादितानि तानि सर्वाण्युत्सर्गमार्गोऽभिधीयते । येष्वनुष्ठानेषु अपुनर्बन्धकादीनां जीवानां प्रायः शुभ एव भावः समुल्लसति, तानि सर्वानुष्ठानान्त्युत्सर्गमार्गः कथ्यते, निर्दोषगोचर्यादिषु त्ववश्यं प्रायः साधूनां शुभो भावः समुत्पद्यत इति तान्यनुष्ठानान्युत्सर्गमार्गरूपाणि
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१०