________________
EEC
નિસીહિ સામાચારી
शब्दप्रयोगं कुर्वन्ति । तत्रापि ते पापानां निषेधं दृढोपयोगं च कुर्वन्ति ।
यदा तु स्थण्डिलगोचरीविहारादिकार्याणि कृत्वोपाश्रये प्रविशन्ति । तदापि ते नैषेधिकीप्रयोगं कुर्वन्ति । तत्र यद्यपि गुरोरवग्रहे जिनावग्रहे च प्रवेशो नास्तीति गुरुदेवानामाशातनाया भयमपि तेषां न विद्यन्ते । किन्तूपाश्रये प्रविश्य स्वाध्यायध्यानादिषु दृढं स्थातव्यमिति जानानास्ते दृढप्रयत्नार्थं नैषेधिकीप्रयोगं कुर्वन्ति । आत्मानं सावधानं करोति यथा “आत्मन् ! अधुना स्वाध्यायध्यानादिषु भवता स्थातव्यम्, न च संयमयोगे दृढप्रयत्नं विना स्थातुं युक्तमिति दृढप्रयत्नपरो भव" इति । एतच्च नैषेधिकीप्रयोगद्वारा कुर्वन्ति । यस्तु पूर्वं सर्वोऽप्युपाश्रयो गुर्ववग्रहरूपः प्रतिपादितः, स तु स्थूलदृष्ट्या ज्ञातव्यः । " साधवो गुरोराशातनाप्रकारं ज्ञात्वा तत्परिहारपरायणा भवन्तु" इति मनसि कृत्वा तत्प्रतिपादितम् । परमार्थतस्तु सार्धहस्तत्रयप्रमाण एव गुरोरवग्रहः । उपाश्रये प्रवेशकाले तु क्रियमाणा नैषेधिकी संयमयोगे दृढप्रयत्नसंपादनार्थमेव, न त्वाशातनापरिहारायेति तात्विकः पदार्थः ।
संयमयोगे दृढप्रयत्नश्चातीवावश्यकः । स्वाध्यायध्यानादिपरायणास्तु तं दृढप्रयत्नं स्वभावत एव प्राप्नुवन्ति । किन्तु ये वृद्धत्वादिवशात्स्वाध्यायादिकं कर्तुं न शक्नुवन्ति । ते कथं संयमयोगे दृढप्रयत्नवन्तः स्यु चिन्तापरायणैस्तीर्थकरैस्तेषां स्वाध्यायादिषु शक्तिरहितानां साधूनां संयमयोगे दृढप्रयत्नसंपादनार्थं ग्रीष्मेष्वातापना हेमन्तेषु शीतसहनञ्च प्रतिपादितम् । येन तेऽपि दृढप्रयत्नवन्तो विपुलां निर्जरां प्राप्नुयुः । इत्थञ्च दृढप्रयत्नार्थं क्रियमाणा नैषेधिकीसामाचार्यपि युक्तैव ।
अत्र हि गुर्ववग्रहे प्रवेशकाले गुरोरनुज्ञाऽऽवश्यकी, जिनावग्रहे उपाश्रये या प्रवेशकाले तु गुरोरनुज्ञाऽनावश्यकीति विवेकः ॥३३॥
शिष्यः प्रश्नयति ननु गुर्ववग्रहे प्रवेशकाले जिनावग्रहे प्रवेशकाले उपाश्रये वा प्रवेशकाले साधवो गुर्वाद्याशातनापरिहारार्थं पापनिषेधकर्तारो दृढोपयोगवन्तो दृढप्रयत्नवन्तश्च भवन्तु । तथा सति तेषामाशातनादिपरिहारो भविष्यति । किन्तु तत्र नैषेधिकीशब्दप्रयोगस्य किं प्रयोजनम् ? तं विनैवाशातनापरिहारादीनां संभवादिति ।
आचार्यः प्रत्युत्तरयति ।
होइ पइण्णाभंगे भीरुअभावा अओ दढो जत्तो । तप्पुव्विया य किरिआ फलया तब्भाववुढिकरी ॥३४॥
यथा हि कश्चित्श्रावको रात्रिभोजनं कदाऽप्यकुर्वाणोऽपि यदि रात्रिभोजनत्यागस्य प्रतिज्ञां न कुर्यात्, तर्हि कदाचिद्विवाहादिप्रसङ्गेषु देशान्तरगमनादिषु वा स परैः प्रेरितः, स्वयमेव वा रात्रिभोजनं कुर्यात् । यतस्तस्य प्रतिज्ञा नास्ति । किन्तु यो गृही रात्रिभोजनत्यागस्य प्रतिज्ञां विदद्यात् । स तु कुत्रापि केनापि प्रेरितो न रात्रिभोजनं करोति । यतस्तस्य मनसि भयं समुत्पद्यते " यद्यहं रात्रिभोजनं कुर्याम्, तदा प्रतिज्ञाभङ्गो भवेत् । प्रतिज्ञाभङ्गश्च महानर्थकारी"इति । इत्थञ्च रात्रिभोजनत्यागप्रतिज्ञा प्रतिज्ञाभङ्गस्य भयं समुत्पाद्य प्रतिज्ञापालने दृढयत्नं जनयतीति सा प्रतिज्ञाऽतीवोपयोगिनी भवति । प्रतिज्ञारहितस्तु श्रावकः तथाविधं भयं न प्राप्नोति । अत एव तस्य रात्रिभोजनत्यागे दृढप्रयत्नो न भवति । अत एव स रात्रिभोजनं करोति ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २३०