Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 240
________________ GEGE નિસીહિ સામાચારી तथा अष्टोपवासान्कर्तुमिच्छन्नपि यस्तपस्वी प्रतिदिनमेकैकोपवासस्यैव प्रतिज्ञां करोति । स कदाचित्तृतीयादिदिने बुभुक्षितः सन् पारणकमपि कुर्यात् । यस्तु प्रथम एव दिनेऽष्टोपवासानां प्रतिज्ञां करोति । तस्याष्टदिनानि यावत् कदापि पारणककरणविचारो न भवति । इत्थञ्च प्रतिज्ञा दृढयत्नमुत्पादयित्वा पापत्यागे पुण्यकरणे वाऽतीवोपयोगिनी भवतीति स्थितम् । एवमत्रापि गुर्ववग्रहादिषु पापमकुर्वाणोऽपि शिथिलयत्नमकुर्वाणोऽपि च साधुर्यदि नैषेधिकीप्रयोगरूपां पापत्यागस्य दृढयत्नस्य च प्रतिज्ञां न कुर्यात्, तदा स कदाचिद्गुर्ववग्रहे मन्दप्रयत्नवान्सन् गुर्वाशातनादिकं कुर्यात् । यतस्तस्य मनसि प्रतिज्ञाभङ्गस्य भयं नास्ति । यस्तु नैषेधिकीप्रयोगरूपां प्रतिज्ञां करोति । स तु " यद्यहं शिथिलप्रयत्नवान् भविष्यामि, तदा गुर्वाशातनादिकं भवेत् । ततश्च प्रतिज्ञाभङ्गो भवेत् । प्रतिज्ञाभङ्गश्च महानर्थकारी " इति भयाद्भीतः सन्पापत्यागे दृढयत्नवान्भवतीति शब्दप्रयोगः प्रतिज्ञारूपोऽतीवोपयोगी भवति । किञ्च दृढयत्नपूर्विका क्रिया क्षायोपशमिकभावेन क्रियते । क्रिया च येन भावेन क्रियते, तस्य भावस्य वृद्धिं जनयतीति नियमः । क्षयोपशमभाववृद्धिश्च क्रमशः क्षायिकभावं सम्पाद्य परमपदं प्रापयतीति । अत्रापि नैषेधिकीप्रयोगरूपप्रतिज्ञया दृढयत्नो भवति । दृढयत्नपूर्विका च क्रिया क्षायोपशमिकभाववृद्धिकरी । सा वृद्धिश्च क्षायिकभावं जनयति । स च क्षायिकभावः परमपदं जनयतीति नैषेधिकीप्रयोगः पारम्पर्येण मोक्षसंपादको भवतीति सोऽपि युक्त एवेति फलितम् । ननु ज्ञाता तावत्संपूर्णा नैषेधिकीसामाचारी । किन्तु तत्र यो दृढप्रयत्नः प्रतिपाद्यते, तस्य तु सम्यक्स्वरूपं ज्ञातुमिच्छामि । कुरुष्वानुग्रहमिति चेत्शृणु । यथा कण्टकादिभिर्विरहिते मार्गे चलन्जन इतस्ततो दृष्टिं पातर्यंश्चलति । किन्तु स एव जनः कण्टकादिभिर्व्याप्ते मार्गे चलन्कुत्रापीतस्ततो दृष्टिं न पातयति । मनस्यपि नान्यत्किञ्चिच्चिन्तयति । केवलमधस्तादेव पश्यन्कण्टकान्परित्यजन्गच्छति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । यथा वा रिपुसहस्रस्याग्रे स्थितो योद्धा क्षणमपि प्रमादं न करोति । अतीवाप्रमत्तो भूत्वा सङ्ग्रामं करोति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । यथा कश्चिद्राजाऽपराधिनं कथितवान् "यदि त्वं तैलपरिपूर्णं पात्रं गृहीत्वा समग्रे नगरे पर्यटे:, तैलस्य बिन्दुमपि न पातयेः, तदाऽहं त्वां मुञ्चामि । अन्यथा मारयामि " इति । स चापराधी मरणभयभीतो लोकपूरितेऽपि नगरे कुत्रापि दृष्टिमपातयन्नतीवाप्रमत्तो भूत्वा पर्यटति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । एवं गुरुदेवानामवग्रहे " तेषामाशातना मा भूद्" इति गुर्वाद्याशातनाभयभीतः साधुस्तदाशातनापरिहारार्थं संयमयोगे तीव्रप्रयत्नसम्पादनार्थञ्चातीवाप्रमत्तो भवतीति बोध्यम् । अत्रावश्यकीनैषेधिकीसामाचार्योरर्थस्तावदेक एव । यतः पापनिषेधोऽप्यावश्यककार्यरूप एव । तथापि गमनकाले आवश्यकी, गुर्वाद्यवग्रहप्रवेशकाले नैषेधिकीति व्यवस्था बोद्धव्या । पञ्चमी नैषेधिकीसामाचारी समाप्ता • महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २३१

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286