Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
REFERRORTERRORERRIERRESTER83818033000RRRREE
ARRIORITIEN T REETTERRIERE निlle सामायारी र शक्नुयात्। तथा गुर्ववग्रहे महता स्वरेण हास्यादिकरणे स्फुटैव गुर्वाशातना । कदाचिनिष्ठयुतमपि गुरोर्मुखे पतेत्, तत्तु महापापं। एवं मुखवस्त्रिकां विना गुरुणा सह वार्तालापे क्रियमाणेऽपि शिष्यस्य निष्ठयुतं गुरोर्मुखे पतेत् ।। से तथा मुखवस्त्रिकां विना वार्तालापे क्रियमाणे गुरोरविनयोऽपि स्यात् । महता स्वरेण वातनिसर्गञ्च कुर्वन्मुनिरपि । गुर्वाशातनाभाग्भवेत्। इत्थञ्च प्रायशः पापविरहिता अपि साधवो गुर्ववग्रहाद्बहिर्निर्गताः सन्तः सूक्ष्मपापवन्तः संभवन्ति । गुरोरवग्रहे च क्रियमाणानि पापानि गुर्वाशातनाकारीणि भवन्ति । गुर्वाशातना च भवोदधिवर्धयित्रीति 2 कृत्वा गुर्ववग्रहप्रवेशकाले गुर्वाशातनाभयभीतसाधवोऽतीवोपयोगयुक्ताः सन्तः सर्वाणि सूक्ष्माण्यपि पापानि र परित्यजन्ति । तदर्थञ्च नैषिधिकोशब्दप्रयोगरूपां प्रतिज्ञां कुर्वन्ति ।
यथा शत्रुदेशस्य समीपे स्वदेशस्य सीमनि वर्तमानाः सैनिकाः प्रायोऽप्रमत्ता एव भवन्ति । तथापि रजन्यां ते विशेषतोऽप्रमत्ता भवन्ति । यतो रजन्यां शत्रुणां भयं विद्यते । दिने चाप्रमत्ता अपि सूक्ष्मप्रमादवन्तो भवन्ति व रजन्यां युद्धादिकाले च सर्वथाऽप्रमत्ता भवन्ति । एवमत्रापि बोध्यम् ।
किञ्च साधूनां किञ्चिदाचरणं स्वयं पापरूपं यद्यपि न भवति, तथापि गुरोरवग्रहे तदाचरणं गुर्वाशातनाकारि भवति । यथा श्रान्तः साधुरेकस्य पादस्योपरि द्वितीयं पादमारोहयति, तदाचरणञ्च यद्यपि पापरूपं न भवति । किन्तु गुरोरवग्रहे तु तदाचरणमवश्यमविनयरूपमेव भवति । तथा साधूभ्यो महता स्वरेण पाठदानं यद्यपि र सुन्दरमेव । किन्तु गुरोरवग्रहे तथाकरणे गुरोरप्रीतिजनकं तद्भवतीति तन्न युक्तं । तथा गुरोरभावे समागतैः
साधूभिः श्रावकैर्वा सह प्रथमं वार्तालापकरणं न दुष्टम् । गुर्ववग्रहे च प्रथमं गुरुरेव तैस्सह वार्तालापं करोति। पश्चादेव साधवः । एवं कश्चित्साधुः श्रान्तः सन् भित्तिं स्पृष्ट्वोपविशति । एतदपि पापरूपं यद्यपि नास्ति, किन्तु । गुरोरवग्रहेऽविनयरूपं भवति ।
इत्थञ्च यदाचरणं गुरोरवग्रहे गुर्वाशातनाकारि भवति, तस्य सर्वस्यापि निषेधार्थं साधवो नैषेधिकीप्रयोगरूपां सामाचारी परिपालयन्ति । ____ तत्रापि यदि दृढोपयोगयुक्ता न भवन्ति, तदा तु प्रतिज्ञां कृत्वाऽपि ते साधवः दृढोपयोगाभावादनाभोगप्रमादादिवशाद्गुरोराशातनारूपमाचरणं कुर्युः । तस्माद् गुरुदेवानामवग्रहभूमौ प्रवेशकाले पापनिषेधे तत्प्रतिज्ञारूपे शब्दप्रयोगे च दृढ उपयोगः कर्तव्यः । तेनैव विपुलाऽशुभकर्मनिर्जरा भवति । यदि च ते दृढोपयोगं न बिभ्रति।। सामान्योपयोगमेव बिभ्रति, तदाऽऽशातनासंभवात् कर्मबन्धो भवति । ___इत्थञ्च गुर्वादीनामवग्रहप्रवेशे क्रियमाणो नैषिधिकीप्रयोगो विपुलनिर्जराकारी भवति, किन्तु स प्रयोगो।। विपुलनिर्जराकरणार्थं तस्य शिष्यस्य पूर्वप्रयत्नापेक्षयाऽधिक प्रयत्नं सहकारिकारणरूपमपेक्षते । अधिकप्रयत्नसंपादनाय च दृढोपयोगोऽतीवोपयोगी भवतीति तात्पर्यम् ।
ननु स साधुर्मुर्ववग्रहप्रवेशकाले नैषेधिकीप्रयोगमुपयोगदृढतां तीव्रप्रयत्नं वा न कुर्यात्, एवमेव गुरोरवग्रह प्रविशेत, तत्र च काऽप्याशातना यदि न भवेत्तदा को दोष इति चेत् । ___ "तदा तीव्रप्रयत्नः कर्तव्यः, उपयोगदृढता च कर्तव्या" इत्यादिरूपाया जिनाज्ञाया भङ्ग एव महान्दोषः ।। तथा "गुरोराशातनाया परिहारस्य परिणामः शिष्यस्य मनसि नैव वर्तत" इति तत्र निश्चीयते । एवञ्च गुरोराशातनाया भयमपि तस्य नास्तीति ज्ञायते । ततश्च "गुरोराशातना हेया" इति दृढो निश्चयो न तस्य विद्यते । तदभावे च
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SSSS555555550SSSS
EEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२८

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286