Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
888 આવસહિ સામાચારી
गमनागमनादीनि कर्तव्यानि । यदि हि कारणे सत्यपि स साधुर्गमनादि न कुर्यात् । तदा गमनादिजन्या गुणा न भवेयुः, जिनाज्ञालोपश्च कृतः स्यात् ।
किञ्च यदि स्थण्डिलं न गच्छति, स्थण्डिलशङ्कां निरुणद्धि । तदा तु मरणमेव स्यात्, उपाश्रय एव वा स्थण्डिलगमने संयमविराधना शासनविराधना च स्यात् । एवं प्रश्रवणनिरोधे क्रियमाणे चक्षुषो रोगा भवेयुः । यत्र तत्र वा प्रश्रवणे परिष्ठाप्यमाने पूर्वोक्ता एव संयमविराधनादयो दोषा भवेयुः । यदि च भक्तपानाद्यर्थं गमनागमनादिकं न कुर्यात्, तदाऽऽर्तध्यानादिना व्याप्तो महान्तं कर्मबन्धं कुर्यात् । स्वयमेव वा बुभुक्षितस्तृषालुश्च म्रियेत । ग्लानसाध्वाद्यर्थं भक्ताद्यानयनाय यदि न गच्छेत्, तदा साधर्मिकवात्सल्यवैयावृत्यादीनामपलापः कृतः स्यात् । तथा च सति सम्यग्दर्शनमेव मलिनं भवेत्, कुतस्तस्य चारित्रपरिणामशुद्धिः ।
तस्मात्कारणे सति गुर्वनुज्ञां गृहीत्वा सम्यगीर्यासमित्यादिपालनं कुर्वता, शास्त्रोक्ताऽऽवश्यककार्यकरणार्थमेव निर्गच्छता साधुनाऽऽवश्यकीशब्दप्रयोगपूर्वकमेव निर्गन्तव्यमित्यावश्यकीसामाचारीसंक्षेपार्थः । चतुर्थी आवश्यकीसामाचारी समाप्ता
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२७

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286