Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कृत्वाऽऽवश्यक
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
r
आपAle सामायारी स एवमीर्यासमित्यादिपालनाभावेन गुर्वनुज्ञाऽभावेनानावश्यककार्यकरणेन वा युक्तो मुनिर्दोषबहुलो भवतीति
प्रयोगं कर्वन्नपि तज्जन्यां निर्जरां नैव प्राप्नोति । प्रत्यत दोषपरिकलितः सन्महान्तं कर्मबन्धमेव विदधातीति तस्यावश्यकीप्रयोगकरणं निष्फलं विफलञ्च भवति ।
न चेदं मन्मन:कल्पनामात्रम् । किन्तु हरिभद्रसूरिभिरपीदमेवोक्तम् । ते च प्रतिपादयन्ति → ईयासमित्य1 पालनादिषु दोषेषु सत्सु क्रियमाण आवश्यकीशब्दप्रयोगो निरर्थकोऽनर्थकारी च भवति - इति ।
यदि हि सेव्यमानानां दोषाणां मनसि पश्चात्तापभावो भवेत् । आवश्यकीसामाचारीपालनस्य तीव्रोऽभिलाषो भवेत्, तदा तु दोषेषु सत्स्वपि स प्रयोगो भविष्यत्काले भावावश्यकीसामाचारीकारणं भवतीति द्रव्यावश्यकी कथ्यते । स च प्रयोगोऽनर्थकारी न भवति, निरर्थकोऽपि च न भवति । किन्तु पश्चात्तापादिनामभावे तु स प्रयोगो भविष्यत्काले भावावश्यकसामाचारीजनको न भवतीति द्रव्यावश्यकी न गण्यते । स च प्रयोगो निरर्थकोऽनर्थकारी च भवतीति विवेकः ॥२८॥
आवश्यकीसामाचारी खल्वपवादमार्गरूपेति दर्शयति । होइ अगमणए इरियाविसोहिसज्झायझाणमाइगुणा । कारणियं पुण गमणं तेण वि भेओ भवे आसिं ॥२९॥ ___ साधु हि सिद्धपदप्राप्त्यर्थं सर्वविरतिं पालयति । सिद्धपदप्राप्तिश्च योगनिरोधाद्भवति । तस्मात्साधुना। 1 योगनिरोधाभ्यासः कर्तव्यः । अत एव कारणं विना पदमात्रगमनमपि साधूनां प्रतिषिद्धम् । कारणं
विनाऽङ्गलिमात्रचलनमपि मुनीनां निषिद्धम् । सर्वथा मनोवाक्काययोगानां निरोधं कृत्वा साधुना स्थातव्यम् । से इत्थञ्च गमनागमनादिक्रियां परित्यज्योपाश्रये योगगुप्तिं कृत्वा तिष्ठतः साधोर्बहवो गुणा भवन्ति ।
तथा हि गमनागमनक्रियायां योगादिनिमित्तक: कर्मबन्धो भवति । तदभावे तु स कर्मबन्धो न भवतीति प्रथमो गुणः । गमनागमनादिषु स्वाध्यायव्याघातो भवति, उपाश्रय एव तिष्ठतस्तु प्रभूतः स्वाध्यायः, तेन च निर्मलपरिणामस्तेन च महती निर्जरा भवतीति द्वितीयो गुणः । ___गमनागमनादिषु धर्मध्यानं ध्यातुं न शक्यते । स्थानस्थितस्तु साधुः प्रसन्नमनाश्चतुर्विधं धर्मध्यानं ध्यायन्परमपदमासन्नीकरोतीति तृतीयो गुणः । ___गमनागमनादिषु पिपीलिकादीनां विराधना संभवति, कण्टकादिना चात्मविराधनाऽपि संभवति । स्थान एव स्थितस्य तु गमनाद्यभावात्संयमविराधनाऽऽत्मविराधना च प्रायो नैव भवति । न ह्युपाश्रये स्थितानामाकस्मिक्यात्मविराधनाऽऽकस्मिकी वा संयमविराधना दृश्यते । गमनागमनादिषु तु ते द्वे अपि विराधने बहुशःशृयेते । इति प्रसिद्धमेवैतत् ।
इत्थञ्च प्रभूतगुणसद्भावाद् गमनागमनादिकं नैव कर्तव्यं, योगगुप्तिं कृत्वैववस्थातव्यमित्युसर्गो मार्गः ।
"इत्थञ्च प्रतिपाद्यमाने कदाचिच्छिश्याः गमनागमनादिकं सर्वथा पापमेव मा मन्यताम्" इति करुणापरोह गुरुरधुनाऽपवादं प्रदर्शयति । ..
स्थण्डिलाय, प्रश्रवणपरिष्ठापनाय, भक्तपानाद्यानयनाय, गुर्वाज्ञापालनायानियतविहारकरणाय चावश्यं ।
0503005555555555555555555ESSESSESENSESSES
EFEEDIA
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २२५ PeeRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRREEDS

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286