Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 216
________________ mm HEATREEN N ER मिWIR सामायारी a तत्र “मि" इति प्रथमाक्षरस्यार्थस्तु मृदुता मार्दवञ्च । तत्र मृदुता कायनम्रतारूपा, मार्दवञ्च भावनम्रतारूपम्। र तत्रापि मस्तकादिनमनं कायनम्रता, अभिमानादिदोषपरिहारस्तु भावनम्रता । तथा "च्छा" इति द्वितीयाक्षरस्यार्थस्तु सेवितानामसंयमरूपदोषाणां पुनरनासेवनमिति । “योऽसंयमदोषो। मया सेवितस्तं न पुनरहं सेविष्य" इत्यपुनःकरणप्रतिज्ञा द्वितीयाक्षरार्थः इति तात्पर्यम् । तथा "मि" इति तृतीयाक्षरस्यार्थस्तु चारित्रमर्यादायां स्थिरतारूपः । "न ह्यहमसंयमस्थाने वर्तमान एव मिथ्याकारसामाचारी पालयामि । किन्तु प्रमादादिदोषवशाद् यद्यप्यसंयमस्थानेऽहं पूर्वं प्रवृतोऽभवम् । अधुना तु र तस्मान्निवृत्तः सन् चारित्रमर्यादायां स्थितवानस्मि" इति भावार्थः । तथा "दु" इति चतुर्थाक्षरस्यार्थस्तु स्वात्मनः पापकारिणो निन्दारूप: । "दुष्कृतकर्मकारिणमात्मानमहं निन्दामि" इति भावार्थः ।। तथा 'क्क' इति पञ्चमाक्षरार्थस्तु पापस्वीकाररूपः । "मयैवैतत्पापं कृतं । न कस्याप्यन्यस्य विद्यमानमपि र दोषमत्राहं पश्यामि । न वा लोकनिन्दादिभयादात्मानं स्वकृतदुष्कृताद् गोपयामि" इति तात्पर्यम् । तथा 'डं' इति षष्ठाक्षरार्थस्तु प्रशमभावेन पापलङ्घनरूपः । “यद्यपि मया प्रमादादिदोषवशात्कृतं पापं, किन्तु सम्प्रति प्रशमभावसमन्वितोऽहं तं पापं शुभपरिणामकुठारेण छिनद्मि" इति भावार्थः । इत्थञ्च षण्णामक्षराणां प्रतिपादिताः षडाः समुदायरूपाः क्रियन्ते । तदा तु वाक्यत्रिकं भवति । तथा हि (१) नतमस्तकोऽभिमानादिदोषशून्यश्चारित्रमर्यादायां स्थितोऽपुनःकरणप्रतिज्ञासमन्वितोऽहं दुष्कृतकारिणं स्वात्मानं निन्दामि। (२) एतद् दुष्कृतं मयैव कृतं नान्येन । (३) तच्चाधुनोपशमभावेन लवयामि । मस्तकनमनादिक्रियां विना सर्वोत्कृष्टः शुभो भावो न प्रायः प्रादुर्भवतीति अवश्यं मस्तकनमनं कार्यम् । मस्तकनमनादिक्रियाकरणेऽपि यदि हृदयेऽभिमानमायायिदोषा भवेयुः । तदा न मिथ्याकारसामाचारी तात्त्विकी स्यात्प्रत्युत कर्मबन्धकारिणी स्यात् इत्यभिमानमायादिदोषनिवारणं कर्तव्यम्। अचारित्रे स्थितस्य मिथ्याकारसामाचारी हि वेश्यागृहे स्थितेन क्रियमाणस्य ब्रह्मचर्यप्रभाववर्णनस्य सदृशीति चारित्रमर्यादायां स्थित्वैव मिथ्याकारसामाचारी करणीया । ___अधुना यद्यपि चारित्रमर्यादायां स्थितः, किन्तु यदि पुनरपि तेष्वेव सेवितेषु दोषेषु पुनर्गच्छेत्, तदा तु मिथ्याकारसामाचारी वास्तविकी न भवेत् । तस्मादपुनःकरणनियमो ग्राह्यः । दुष्कृतकर्मकारिणः स्वात्मनो निन्दां विना दुष्कृतेषु हेयत्वबुद्धिस्तत्त्यागसंकल्पश्च चिरस्थायिनौ न भवत में इत्यवश्यं स्वात्मनिन्दनं कार्यम् । ____ यदि "मयैवैतत्पापं कृतम्" इति हृदयेन स्वीकारो न क्रियते, तदा तु तीव्रपश्चात्तापभाव एव न भवति ।। पापस्वीकारेऽपि "यथा मयेदं कृतं, तथाऽन्यैरपि कृतं, नाहं केवलमेकएवेदं पापं सेवितवान्, किन्तु भूयांसो मया सह पापकारिणोऽभवान्" इत्यादिना परानपि दुष्टरूपेण प्रकटान्कुर्वाणस्य सा मिथ्याकारसामाचारी न तथाविध EEEEEEEEEEEEEEEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०७ WERESHEESECRETSGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE8888888RESEEEEEDS

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286