Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 227
________________ SAEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEeeeeee तथाकार साभाथारी EEEEE व प्रयोजनार्थं मूलोत्तरगुणविरहितस्यापि द्रव्यतो वन्दनदाने न कोऽपि दोषस्तथाऽत्रापि भावनीयम् ॥२३॥ शिष्यः प्राह → ननु गीतार्थसंविग्नोऽपि साधुश्छद्मस्थ एव, तथा गीतार्थसंविग्नपाक्षिको जिनवचनविपरीताचरणवानिति तयोरपि वचनानि जिनवचनविरुद्धानि कथं न संभवेद् ? - इति । ___आचार्यः समादधाति । नाणेण जाणइ च्चिय संवेगेणं तहेव य कहेइ । तो तदुभयगुणजुत्ते अतहक्कारो अभिणिवेसा ॥२४॥ ___यत्तावद् भवतोक्तं यथा “संविग्नगीतार्थोऽपि सर्वज्ञो नास्तीति तस्य वचनमपि जिनवचनविरुद्ध संभवति" इति, तत्राहं त्वामेव पृच्छामि । यदुतासर्वज्ञस्य वचनं जिनवचनविरुद्धं संभवतीति भवत्कथनमपि कथं 8 मृषा न स्यात् यतो भवानप्यसर्वज्ञ एव । ___शिष्यः प्राह-"ननु योऽसर्वज्ञः, तस्य वचनं जिनवचनविरुद्ध संभवत्येव । तत्र विचारावकाश एव नास्ति" इति । ___ गुरुस्तु प्राह "एवं तर्हि गीतार्थसंविग्नस्य सम्यगुपयोगपूर्वकं भाष्यमाणं वचनमपि जिनवचनानुसार्येव । भवति, तत्र विचारावकाश एव नास्ति" इति । ___किञ्च यथा पुरोवतिनं घटं दृष्ट्वा यदा भवान्प्रतिपादयति यदुत "भूतलं घटवत्" तदा यद्यपि भवानसर्वज्ञोऽस्ति, तथापि "तव वचनं मृषाऽस्ति" इति कोऽपि न मन्येत । तथा त्वमपि पितॄणा मातृणा वैद्येन शिक्षकेन चासर्वज्ञेन प्रतिपादितमपि वचनं स्वीकरोष्येव । किं तत्र त्वं काञ्चित्शङ्कां करोषि ? एवं तहि जिनागमनां गूढरहस्यं सम्यग्जानाना ते गीतार्थाः पुरोवर्तिघटवत् सर्वान् शास्त्रीयपदार्थान्जानन्ति । हृदये 2 संवेगसद्भावाच्च मिथ्यावचनं नैव वक्तीति यद्यपि तेऽसर्वज्ञाः, तथापि तेषां वचनं जिनवचनानुसार्येवेति न तत्र काचिदपि शङ्का कर्तव्या । तथा "गीतार्थसंविग्नपाक्षिका जिनवचनविरुद्धाचारवन्त इति तेषामपि वचनं जिनवचनविरुद्धं संभवति" 1 इति यद् भवतोक्तं । तदपि न युक्तम् । यतो यथा स्वयमसाध्यमहारोगग्रस्तोऽपि महावैद्यो यदा परेषां शरीरे वर्तमानस्य साध्यस्य तस्यैव रोगस्य चिकित्सां करोति, शिक्षाञ्च प्रददाति, तदा कोऽपि रोगी तद्वचने विपरीतत्वशङ्कां नैव करोति । प्रत्युत तस्य प्रत्येकवचनं सम्यक्स्वीकरोति, पालयति च । ___ एवमेव चारित्रमोहनीयोदयवन्तः संविग्नपाक्षिका जिनवचनविपरीतमाचार समाचरन्ति, तथापि ते परोपकारबुद्धिमन्तो यथार्थं जिनवचनं जानाना सम्यगेव निरूपयन्ति । ततश्च तेषां वचनमवश्यं जिनाग भवतीति तदपि निर्विकल्पेन मनसा स्वीकार्यम् । एतदेवास्यां गाथायां प्रतिपादितम् । गीतार्थसंविग्ना गीतार्थसंविग्नपाक्षिकाश्च सम्यग्ज्ञानेन सर्वान्शास्त्रीयपदार्थान्करतलगतपुस्तकवज्जानन्ति । संवेगयुक्ताश्च ते "यथा श्रोतृणां हितं भवति" तथैव से प्रतिपादयन्तीति सम्यगुपयोगपूर्वकमुच्चार्यमाणानि तेषां वचनानि जिनवचनानुसारिण्येव भवन्तीति सिद्धम्। ____ एवञ्च यदि तेषां वचनं जिनवचनरूपमेव भवति, तर्हि ये तस्मिन् वचने तथाकारप्रयोगं न कुर्वन्ति । तेषां । वचनं हृदयेन न स्वीकुर्वन्ति, ते तु परमार्थतो जिनवचनमेव तिरस्कुर्वाणा मिथ्यात्वं प्राप्नुवन्ति । PORRORDDRUDDDDDDDDDDDDmmeneD0TRUTORRCamera m mammeeraveenawaranand महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २१८ Ress 8 88ESSISTERESTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEB EEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEE 355555555555555 GOGR3883

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286