Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 228
________________ eee તથાકાર સામાચારી तस्मात्स्वकदाग्रहं विमुच्य सोपयोगं ब्रुवाणानां संविग्नगीतार्थाणां संविग्नपाक्षिकगीतार्थानाञ्च वचनं तथाकारप्रयोगपुरस्सरं निर्विकल्पेन मनसा ग्राह्यम् । ये तु तेषां वचने रुचिं विदधाना अपि तथाकारप्रयोगादिकं न जानन्ति । ते व्यवहारप्रवीणताऽभाववन्तो यथायोगं तथाकारप्रयोगमकुर्वाणाः अपि मिथ्यात्वं न प्राप्नुवन्ति । किन्तु तथाकारप्रयोगपालनजन्यान् लाभान् परित्यजन्तीति प्रमादं मुक्त्वा तथाकारसामाचारीं सम्यग्ज्ञात्वा तदनुसारतस्तथाकारसामाचारी समाश्रयणीया ॥२४॥ ननु तथाकारप्रयोगपालने के गुणा भवन्ति ? अहो शिष्य ! किं जिनाज्ञापालनमेव महान्तं गुणं न पश्यसि ? येनान्यान्गुणानन्वेषयसि ? गुरो ! पश्यामि जिनाज्ञापालनं गुणं, किन्तु गुणान्तरान्ज्ञातुमिच्छामि । आचार्यो गुणान्तरान्कथयति । एत्तो तीव्वा सद्धा तीए मिच्छत्तमोहकम्मखओ । अण्णेसिं पि पवित्ती विणओ तित्थंकराणा य ॥२५॥ या क्रिया येन भावेन क्रियते, सा क्रिया तमेव भावं वर्धयतीति नियमः । यथा कामभावेन क्रियमाणमब्रह्म कालान्तरेऽधिकं कामरागं जनयतीति, यथा वा स्नेहभावेन क्रियमाणं पुत्रपालनमधिकं पुत्रस्नेहरागं जनयति । एवमत्रापि गुरुवचने श्रद्धापूर्वकस्तथाकारप्रयोगः सुविहितेन शिष्येन क्रियते । तस्मात्स प्रयोगः तामेव श्रद्धां तीव्रां करोति । तथा च जिनवचनेषु समुत्पन्नया तीव्रया श्रद्धया मिथ्यात्वमोहनीयकर्मणः क्षयो भवति । मिथ्यात्वमोहनीयकर्म हि कदाग्रहेण पुष्टं भवति । जिनवचनेषु जायमाना तीव्रा श्रद्धा कदाग्रहविरोधिनीति कदाग्रहहानौ मिथ्यात्वमोहनीयस्य हानिर्धुवैव । न तत्र कश्चित्सन्देहः । तथा यदा 'गीतार्थसंविग्नो गुरुर्वाचनां ददाति, तदा विनीतशिष्या नूतनशिष्या अन्येऽपि श्रावकाश्च तत्र श्रृण्वन्ति । तत्र विनीतशिष्यानां तावद्गुरौ गीतार्थतायाः संविग्नतायाश्च निश्चयो विद्यत एव यतस्ते प्रभूतकालतो गुरुणा सह संपर्कवन्तो विद्यन्ते । ये तु नूतनशिष्या नूतनश्रावकादयश्च तत्र श्रृण्वन्ति । तेषां तु तस्मिन्गुरौ गीतार्थसंविज्ञताया निश्चयो नास्तीति ते तद्वचनं निर्विकल्पं स्वीकर्तुं नोत्सहन्ते । यदा च रत्नाधिका विनीतशिष्या गीतार्थसंविग्नवचने हर्षोल्लासपूर्वकं तथाकारप्रयोगं कुर्वन्ति । तदा तान् तथा दृष्ट्वा नूतनशिष्याणां श्रावकाणाञ्च गीतार्थसंविग्नतायास्तस्मिन्गुरौ निश्चयो भवतीति तेऽपि तथैव गीतार्थसंविग्नवचनं निर्विकल्पेन मनसा स्वीकुर्वाणा भवन्ति । इत्थञ्च तेषामपि तीव्रा श्रद्धा, कदाग्रहहानिर्मिथ्यात्वहानि: सम्यक्त्वप्राप्तिश्चेति बहवो गुणा भवन्ति । तत्र निमित्तं च तथाकारसामाचार्येव भवतीति तथाकारसामाचारीं कुर्वाणानां परोपकारादिजन्योऽपि महागुणो भवति । किञ्च नूतना साधवः श्रावकाश्च प्रायः " कीदृशेन प्रकारेण गुरुवचनं श्रोतव्यम् " त्यादि न जानन्ति, न वा गुरुप्रसन्नताकरणोपायादिकं जानन्ति । ते तु तथाकारसामाचारीं कुर्वाणानां साधुनां तथाविधाचारं दृष्ट्वा तदैव च गुरोर्वर्धमानां प्रसन्नतां दृष्ट्वा स्वयमपि तथाकारसामाचार्यां दृढश्रद्धावन्तो निपुणाश्च भवन्तीति विशिष्टो गुणः । तथा गुरुवचने हर्षोल्लासपूर्वकं तथाकारप्रयोगस्तु गुरुं प्रति शिष्यस्य मनसि वर्तमानस्य भक्तिभावस्य व्यञ्जको भवति । गुरुविनयश्चात्र कृतो भवति । विनयश्च जिनशासने मूलं । विनयो हि शुश्रूषाश्रवणश्रुतज्ञान विरतिसंवरतपोनिर्जरायोगाभावद्वारा परमपदसंपादकः प्रशमरत्यादौ प्रतिपादितोऽस्तीति तत्रापि महान्लाभः । महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • ૧૯

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286