Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
EEEEEEEE
WEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
REEEEEEEEEE E E
भिछाडार सामाचारी तान् दोषान्सेवन्ते, ते तु तदैव शुद्धप्ररुपणां कुर्वन्त्येव । यथा → न कल्पते खलु साधूनामिदृग्दोषसेवनम् । जिनैः र साधूनां निषिद्धमेव निष्कारणं विकृत्यादिभोजनं । तथापि वयमध्यात्मसुखमद्यापि न लब्धवन्तः, अत एव।
वैषयिकसुखे विष्टाकल्पे शूकरा इव तद्दोषं सेवामहे । सर्वथा धिग्भवत्वस्मादृशान् जिनाज्ञाभञ्जकान्साधून् - 1 इति । इत्थञ्च ते श्रावकादयः सम्यक्प्ररूपणां श्रुत्वा सम्यग्जिनाज्ञां ज्ञात्वा तां स्वीकरोति, न तु मिथ्यात्वं से प्राप्नोतीति न पश्चात्तापभाववतां साधूनां परेषां मिथ्यात्ववर्धनरूपो दोषो भवति ।
किन्तु → यद्यहं वास्तविकजिनाज्ञां कथयिष्यामि, तदा श्रावका मामेव जिनाज्ञाविरुद्धवतिनं ज्ञात्वाऽवगणयिष्यन्ति । न मां वन्दनादिकं करिष्यन्ति । ममोपरि तेषां यः सद्भावोऽधुना वर्तते । सोऽपि में गमिष्यति । मत्समीपे दीक्षामपि न ग्रहीष्यन्तिइत्यादि चिन्तनेन भीता ये शुद्धप्ररूपणां न कुर्वन्ति । तेषां तु
पश्चात्तापभाव एव नास्तीत्यवश्यं मन्तव्यं । ततश्च ते मिथ्यात्विन एव मन्तव्याः । ते तु परेषां मिथ्यात्वं श्री वर्धयन्त्येव ।
ये तु तात्विकपश्चात्तापभाववन्तोऽपि व्यवहारेऽकुशलाः प्रमादात् सम्यक्प्ररूपणां न विदधाति, तेषां यद्यपि सम्यक्त्वं विद्यते, तथापि शुद्धप्ररूपणाया अभावात् परेषां मिथ्यात्वगमनसंभवोऽस्तीति कृत्वा स दोषस्तु तेषां कथंचिन्मन्दरूपोऽपि भवतीति सूक्ष्मदृष्ट्या विभावनीयम् । न हि शुभभावमात्रेण संतोषः कर्तव्योऽपि तु सर्वत्र ई सम्यग्व्यवहारपालने भृशं यतितव्यमन्यथा प्रतिपादितरीत्या मुधैव दोषो भवेत् ॥२०॥
इत्थं तावत्सविस्तरं निश्चयव्यवहारमतद्वयं प्ररूप्याऽधुना सर्वदोषरहितमुत्सर्गमार्गरूपं प्रतिक्रमणं र विधिशुद्धमपवादमार्गरूपञ्च प्रतिक्रमणं प्रदर्शयति ग्रन्थकारः ।
तम्हा अकरणय च्चिय कहियं नु तए पए पडिक्कमणं ।
नो पुण उवेच्च करणे असइ करणे य पडिक्कमणं ॥२१॥ पापं कृत्वा मिथ्याकारप्रयोगदानानन्तरं पुनः पापसंभवे प्रतिपादिता दोषा भवेयुरित्युत्सर्ग मार्गस्तावदयमेव । यदुत पापमेव न करणीयम् । ___ ननु पापं कृत्वा प्रायश्चितकरणे महान्संवेगः समुल्लसति, यदि च पापमेव न क्रियते, तदा प्रायश्चित्तस्याप्यसंभवात्महान्संवेगः कथं भवेत् ? तदभावे च कथं तज्जन्याया महत्याः निर्जराया लाभः स्यात्? तस्मात्पापं करणीयमेव, येन पश्चात्तापो भवेत्, येन च महान्संवेग समुल्लसेत्, येन च महती निर्जरा स्यादिति चेत् ।
मूढोऽसि । “पापं कृत्वा यत्प्रायश्चितादिकं क्रियते, तेन को लाभो भवति?" इति भवन्तं पृच्छामि । किं यत्पापं कृतं, तज्जन्यस्याशुभकर्मबन्धस्य विनाशमात्रमेव भवति ? किं वाऽन्येषामपि पूर्वभवेषु बद्धानां कर्मणां क्षयोऽपि भवति? यदि प्रथमो विकल्पः तदा तु को नाम शुद्धं शरीरं स्वयमेव कर्दमे क्षिप्त्वा पुनः स्नानकरणेन। पूर्ववत्शुद्धं कर्तुं प्रयतेत ? तत्र तु कर्दमे शरीरक्षेप एव न कर्तव्य इति सर्वेषां विदुषां सम्मतम् । एवमत्रापि को नाम स्वयमुपयोगपूर्वकं पापं कृत्वा तदनन्तरं प्रायश्चित्तकरणेन विशुद्धो भवितुं यतेत ? मतिमान्हि पापाकरणेनैव। शुद्धस्तिष्ठति ।
यदि च द्वितीयः पक्षः, सोऽपि न पापस्य करणीयत्वं साधयति । यतो यथा प्रायश्चित्तादिना पूर्वभवेषु ।
हहहहहहह REEN
BlackGREERSEEE
PRESENTERESTERIENCE R TERecemerswwwwwwwwwwwwws
हामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २१४ MEERUSSETTEESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286