Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 222
________________ NEETIREEEEEEEEEEEEEEEEEEEEEEEEE N मिछार सामायारी न करोति, स मिथ्यादृष्टिर्भवति । न केवलमसौ मिथ्यादृष्टिरेवापि तु महामिथ्यात्वी । यतोऽन्ये मिथ्यात्विनः परेषांक मिथ्यात्वं न वर्धयन्ति । अयं तु परस्य शंकां जनयन् परस्य मिथ्यात्वं वर्धयति । . है तथा हि भोजनासक्तिपरवशः कश्चित्साधुः कुत्रचित्स्थाने गत्वा प्रभूतं मिष्टान्नं गृह्णाति । स तु श्रांवकश्चिन्तयति "किं परमात्मना प्रभूतमिष्टान्नभोजनं साधूनामनुज्ञातं ? यद्वा अयमेव साधुर्जिनाज्ञामुल्लङ्घय। प्रभूतमिष्टान्नं गृह्णाति ?" इति । तत्र च साधुस्तथा मायां कुर्यात् यथा स श्रावकः पश्चादिदमेव मनसि निश्चयं कुरुते, यथा "नाऽयं साधुर्जिनाज्ञाभङ्गकारी, किन्तु परमात्मना प्रभूतमिष्टान्नभोजनं साधूनामनुज्ञातमेव" इति । र इत्थञ्च या खलु जिनाज्ञा नास्ति, तामेव स श्रावको जिनाज्ञां मन्यत इति स साधुरेव तस्य मिथ्यात्वस्य वृद्धि प्रति निमित्तमभूत् । एवं स्त्रीभिस्सहैकान्तेऽनेकान्ते वा प्रभूतकालं यावद् वार्तालापादिकं कुर्वाणस्य साधोर्दर्शनं कृत्वा कश्चित्श्रावकस्तत्रापि चिन्तयति - "किं परमात्मना ब्रह्मचारिणां यूनां साधूनां सुरुपाभिस्त्रीभिस्सह वार्तालापादिकरणस्यानज्ञा दत्ता ? किं वाऽयमेव साधर्वासनासंतोषार्थं विपरीतमाचरति ?"इति । तत्रापि सः B मायावी साधुः "अहं तु धर्मकथां करोमि, मुमुक्षुस्त्रीणां प्रतिबोधं ददामि । अतीवदुःखिता खल्वेताः, को मां र विना ताभ्यः सम्यक्शिक्षां दद्यादिति परोपकाराय करोम्यहं वार्तालापादिकम्" इत्यादिकपटं करोति । ततश्च। श्रावको मन्यते "ननु साधूनां स्त्रीभिस्सह परोपकारादिकरणाय प्रभूतकालं यावद् वार्तालापादि समनुज्ञातमेवेति न साधूनां दोषः" इति । इत्थञ्चात्रापि जिनाज्ञाविरुद्धं स्त्रीसंपर्कादिकं जिनाज्ञां मन्यमानस्य श्रावकस्य मिथ्यात्वं से भवति । तन्निमितञ्च स साधुः । एवं जिनाज्ञाविरुद्धमाचरणं कुर्वाणाः साधवः सर्वत्र परेषां मिथ्यात्वं वर्धयन्तीतिर स्थितम् । ततश्च युक्तमेव तेषां साधूनां महामिथ्यात्वम् । व इत्थञ्च ये स्वयं निर्ध्वंसपरिणामाः कपटादिकं कृत्वा परानपि मिथ्यात्वं प्रापयन्ति, ते महापापाः। से परेषामनन्तसंसारं वर्धयन्तः स्वयमपि दुरन्तानन्तसंसारं समर्जयन्त्येव । जिनाज्ञा हि चक्रवर्तिपदस्थानीया, तदाराधना यथा महत्फलं ददाति, तथैव तद्विराधना महानर्थमपि ददाति, न हि जिनाज्ञाद्रोहं कुर्वाणानाम् । स्वप्नेऽपि सुखसंभव इति सर्वत्र जिनाज्ञापालनकटिबद्धेनैव साधूना भवितव्यम् । प्रमादादिदोषवशासमुत्पद्यमानाना मतिचाराणां गीतार्थगुरुसमीपे विशुद्धतमं प्रायश्चितमङ्गीकरणीयम् । प्रायश्चितमकुर्वाणानां सशल्यानां घोरतपोऽनुष्ठानादिकरणेऽपि लक्ष्मणासाध्वीवत् नाध्यात्मसंप्राप्तिः संभवतीति दृढं निश्चेतव्यम्।। __व्यवहारनयस्तु ब्रूते → निश्चयनयेन यत्प्रतिपादितं, तत्सर्वमेव ममापि सम्मतं । किन्तु यत्तेन प्रमादवशतो। दोषान्सेवमानानां प्रायश्चित्तादिभाववतामपि साधूनां मिथ्यात्वं प्रतिपादितं, तत्तु न मह्यं रोचते । ये साधवो निष्ठुरपरिणत्या पुनः पुनर्दोषान् सेवन्ते, तेषां तावन्मिथ्यात्वं ममापि सम्मतं । किन्तु पश्चात्तापभाववतां प्रमादिसाधूनां तु दोषसेवनेऽपि सम्यक्त्वं विद्यत एव । तदेव सम्यक्त्वं पश्चात्तापभावं जनयन्सन् क्रमेण विशुद्धचारित्रमपि जनयिष्यत्येव। तथा ये साधवो निष्ठुरपरिणत्या प्रभूतमिष्टान्नभोजनस्त्रीसंपर्कादिदोषान् सेवन्ते, ते तावदवश्यं परेषां मिथ्यात्वं वर्धयन्त्येव । किन्तु ये साधवो हृदये तान् दोषान् प्रति धिक्कारभावं बिभ्राणा अपि प्रमादवशादासक्तिवशात्स्नेहवशाद् वा SEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१३ RessesGEETROOTARRESTERRITERESTTERTERESTIGETSTERTTERTERESERTREEEEEEEEEEEEEE

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286