Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
મિચ્છાકાર સામાચારી
'बद्धानामप्यशुभकर्मणां क्षयो भवति, तथैव सर्वथा पापमकुर्वाणस्य प्रतिक्षणं वर्धमानविशुद्धिकस्य पूर्वभवेषु बद्धानामप्यशुभकर्मणां क्षयो भवत्येव । यथा हि पापं कृत्वा प्रायश्चितकरणं जिनाज्ञेति तामाज्ञां पालयतो महती निर्जरा । तथैव प्रथमं तावत्पापं न करणीयमेवेत्यपि जिनाज्ञेति तां पालयतोऽपि कथं महती निर्जरा न स्यात् ? प्रत्युत प्रायश्चित्तादिकरणार्थमनवरतं पापं कुर्वाणो यदि निष्ठुरो जायेत, तदा तु मायापरवञ्चनमिथ्यात्वादयो बहवो दोषास्तस्य संभवेयुः । पापमेवाकुर्वाणस्य तु न कोऽपि दोषः । तस्मात् पापं न करणीयमेवेत्येवोत्सर्गमार्गानुसारि प्रतिक्रमणमिति स्थितम् ।
अथ प्रमादादिदोषवशात्पापं भवेत्, तदा तु पश्चात्तापभावपूर्वकं मिथ्याकारप्रयोगकरणमपवादमार्गतः प्रतिक्रमणं भवति ।
तत्रापि य उपयोगपूर्वकं निष्ठुरपरिणामेन निष्कारणमेव पापं करोति, तस्य तु मिथ्याकारप्रयोगकरण मपवादतोऽपि प्रतिक्रमणं न भवति, किन्तु तस्य पूर्वं प्रतिपादिता मायादयो दोषा भवन्तीति प्रागेव प्रपञ्चतो वर्णितमस्ति ।
यस्तु मूढो ब्रूते "नाहं निष्ठुरपरिणामेन पापं करोमि, किन्तु तथापि पुनः पुनः स्त्रीमुखदर्शनादिकं भवतीति किं करोमि ?" इति । स तु मूढ एव । यतोऽनुपयोगतः पापं सकृद्विर्वा भवति । यत्तु पापमनेकशो भवति, तदुपयोगपूर्वकमेव भवति न त्वनाभोगतः । तस्मात्तस्यापि मिथ्याकारसामाचारी मिथ्यैव परिगणनीया ।
इदमत्र रहस्यम् । निकाचितचारित्रमोहनीयकर्मोदयवशात्केचित्सम्यग्दृशोऽपि साधवः "पापं नैव करणीयम्" इति मन्यमाना अपि निष्कारणमेव पापानि कुर्वन्ति । किन्तु तत्र पश्चात्तापभावादिवशात्सम्यग्दर्शनहानिर्न भवति । प्रत्युत तदेव सम्यग्दर्शनं पश्चात्तापभाववर्धनद्वारा क्रमशश्चारित्रपरिणाममपि जनयति । किन्तु यावत्कालं चारित्रमोहनीयोदयपरवशता भवेत्, तावत्कालं तैः पाल्यमाना मिथ्याकारसामाचारी यद्यपि तात्त्विकी नैव भवति । तथापि सा तात्त्विकमिथ्याकारसामाचारीजननी तु भविष्यत्काले भवत्येवेति कृत्वा सा न प्रतिषिद्धा। एवमेव मिथ्यात्वगुणस्थानवर्तिनामपि सरलतापापभीरुतामन्दमिथ्यात्वादिगुणवतां साधूनां तथाविधा सामाचारी तेषां हितकारिण्येव मन्तव्या । विचित्रो हि जीवानां परिणामः, तस्मात्पश्चात्तापभाव एव मिथ्याकारसामाचारीपरिपालनस्य योग्यतेति निष्कलङ्को मार्गः ।
1
तस्मादैदंयुगीनसाधूभिः प्रथमं तावदोषपरिहारस्यैव प्रयत्नः करणीयः, किन्तु दुष्षमकालप्रभावाद् प्रमादविषयासक्तिप्रभृतिदोषवशवर्तिनां पुनः पुनः प्रायश्चित्तकरणेऽपि मिथ्याकारसामाचारीपालनेऽपि च भविष्यन्त्येव पुनः पुनस्ते दोषाः । दुर्जयोऽयं मोहराजः किन्तु पश्चात्तापभावं वर्धयित्वा पुनः पुनः प्रायश्चित्तादिकमवश्यं कर्तव्यम् । एवमेव क्रमशो दोषहानिद्वारा विनश्यन्ति सर्वेऽपि ते दोषाः । भविष्यत्यत्रैव भवे निर्मलतमं चारित्रम् । किञ्च वर्तमानकाले बकुशं कुशीलमेव वा चारित्रमस्तीति जिनागमः । तत्र कुशा कुशीलता वाऽनेकविधानां प्रभूतानामतिचाराणां संभवाद् ज्ञातव्या । चारित्रञ्च यावन्तो लघवो महान्तो वा दोषा सेव्यन्ते, पापकरणकालीनस्याशुभभावस्यापेक्षया तीव्रतरशुभभावसमन्वितैः तावद्भिरेव मिथ्याकारप्रयोगैः संभवेदिति संक्षेपः ॥२१॥
द्वितीया समाप्ता मिथ्याकारसामाचारी
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१५

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286