Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 220
________________ EGGESE મિચ્છાકાર સામાચારી सिध्यन्ति । किन्तु यदा महारोगवृद्धत्वमंदक्षयोपशमादिकारणवशात्शास्त्रोक्तानि कार्याणि शास्त्रोक्तविधिना कर्तुं न शक्यन्ते, तदा तत्र शास्त्रप्रतिपादितनीत्यैव द्रव्यक्षेत्रकालभावानुसारतोऽल्पा मध्यमा महान्तो वा दोषाः सेव्यन्ते । यथा महारोगदशायां तथाविधौषधाद्यर्थं त्रिः पर्यटने क्रियमाणेऽपि यदा प्रायोग्यमौषधादिकं न प्राप्यते, तदाऽऽधाकर्मादिदोषदुष्टमपि तत्स्वीक्रियते । तथा वृद्धत्वादिवशाद् विहारकरणस्याशक्तौ सत्यां स्थिरवासः क्रियते, तथा कुत्रचिद्ग्रामादौ गोचर्यां दुर्लभायां सत्यामभ्याहतादिदोषदुष्टाऽपि गोचरी स्वीक्रियते इत्यादि । इत्थञ्च यदा कारणवशान्निर्दंभभावेन दोषाः सेव्यन्ते, तदा तेषां दोषाणामासेवनमपवादमार्गो भवति । येष्वनुष्ठानेषु जीवानां प्रायोऽशुभ एव भावः समुत्पद्यते, तान्यनुष्ठानानि गाढकारणवशान्निष्कपटभावेन सेव्यमानानामुनीनामपवादमार्गे भवतीति तात्पर्यम् । अत्र हि दोषसेवनेऽपि सुविहितमुनीनां हृदये महान्पश्चात्तापभावो भवति । अत एव येन कारणेन स दोषः सेव्यते, तत्कारणं यदाऽपगच्छति, तदा झटित्येव ते मुनयस्तद्दोषसेवनमपि परित्यजन्ति । ये तु दोषसेवनप्रयोजकस्य रोगादिकारणस्य विनाशेऽपि तमेव दोषं सेवमाना एव तिष्ठन्ति तेषां तु तद्दोषासेवनमपवादमार्गे न भवत्यपि तून्मार्ग एव । इत्थञ्च ये दोषा अपवादमार्गरूपाः ते दुष्कृतरूपा न भवन्तीति तेषां प्रायश्चित्तमपि नैव भवति । यत्तु तेषामपि अपुनर्बन्धकादीनां प्रायश्चितं गीतार्थैः दीयते, मुनिभिश्च क्रियते, तत्तु तेषां दोषाणामासेवनेऽनाभोगप्रमादादिवशतो यज्जिनाज्ञाविरुद्धमाचरितं भवेत्, यदपवादमार्गविमुखमाचरितं भवेत्, तस्यैव प्रायश्चितं दीयते क्रियते वा । तथा यद्यपि तेऽपवादमार्गरूपेण सेव्यमाना दोषा दुष्कृतरूपा न भवन्ति, तथापि तेषु दोषेषु या हेयताबुद्धिः स्वमनसि वर्तते, तस्याः संरक्षणार्थं निजपरिणामविशुध्ध्यर्थं च तत्र प्रायश्चितं क्रियत इत्यपि दृष्टव्यम् । यदि हि तेषामपवादमार्गरूपाणामपि दोषाणां प्रायश्चित्तादिकं न क्रियेत, तदा तु पश्चाद्रोगादिकारणाभावेऽपि तद्दोषासेवने भयं न स्यात् । प्रायश्चित्तादिके तु क्रियमाणेऽनवरतं तेषां दोषाणां त्यागकरणस्यैवाभिप्रायो वर्धत इति रोगादिकारणविनाशे सहसैव तद्दोषसेवनमपि त्यक्तुं शक्यते मुनिभिः । इत्थञ्चापवादमार्गरूपाणां दोषाणां मिथ्याकारप्रयोगं कृत्वा पुनरपि तेनैवापवादमार्गरूपेण तेषां दोषाणामासेवने न कोऽपि दोषः । यदि च रोगादिकारणं यावज्जीवभावि स्यात्, तदा दोषदुष्टौषधादिसेवनमपि यावज्जीवमेव तैः क्रियते, तस्य प्रायश्चितमपि क्रियते, हृदये तत्पश्चात्तापोऽपि तेषां वर्तत इति यावज्जीवं तेषां दोषाणामासेवनेऽपि परमार्थतः केऽपि दोषा न भवन्ति । यदि च ते तेषां दोषाणामासेवने निष्ठुरा भवेयुः । शास्त्रोक्तां त्रिः पर्यटनादिरूपां यतनां न पालयेयुः । तदा तु तद्दोषसेवनमुन्मार्गरूपमेव भवति । अत एवापवादमार्गपरिपालनमतीव दुष्करं । सततं कारणवशाद्दोषसेवनं करणीयं, सततञ्च तत्र पश्चात्तापादिभावो रक्षणीयः, कारणनाशे सत्येव झटित्येव मनोरमोऽपवादमार्गः परिहरणीय इत्यादिरूपा जिनाज्ञाऽऽसन्नभव्यैरेव पालयितुं शक्या । एष तावत्शास्त्रोक्तकारणवशाद्दोषसेवनरूपोऽपवादमार्गः प्रतिपादितः । तत्र च पुनः पुनर्दोषसेवनेऽपि न कश्चिद्दोष इति विवेचितम् । महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २११

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286