Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 215
________________ REFERRESTERamanrassmateRTERE SEEEEEEEEEEEEE SEEEEEEEEEEEEE AI TETTERTER भि७IHR AIमायारी ) म अधुना मिथ्याकारसामाचारी निस्त्पयितुमारभ्यते । तत्रापि प्रथमं व्यवहारनयमतं प्रदर्शयति जो मिच्छत्ति पओगो नियसंजमजोगदुप्पउत्तंमि । सो खलु मिच्छाकारो तुह सिद्धते समुवइट्ठो ॥१३॥ ___पञ्चसमितिषु त्रिगुप्तिषु भिक्षाटने वस्त्रप्रतिलेखने वस्त्रप्रक्षालने स्वाध्याये वैयावृत्येऽन्येषु वा संयमयोगेषु यदा जिनाज्ञाविरुद्धमाचरणं भवेत् । तदा साधुना “मिच्छा मि दुक्कडं, मिथ्या मे दुष्कृतं भूयात्, मम पापं मिथ्या भवतु, मत्पापं वितथं भवतु, मम दोषो निष्फलो भवतु, ममातिचारस्य नाशो भूयाद्"इति वा यो वाक्यप्रयोगो विधीयते, स मिथ्याकारप्रयोग एव मिथ्याकारसामाचारी तव वीरस्य सिद्धान्ते समुपदिष्टः। ___ व्यवहारनयो हि ब्रूते → "मम पापं मिथ्या भवतु" इत्यर्थसमन्वितानि कस्यामपि भाषायां समुच्चारितानि, कैश्चिदपि शब्दैर्ग्रथितानि सर्वाणि वाक्यानि मिथ्याकारसामाचारी भवन्ति । न हि → प्राकृतभाषायामेव, संस्कृतभाषायामेव, गुर्जरभाषायमेवाङ्ग्लभाषायामेव वा समुच्चरितानि "मम दुष्कृतं मिथ्याभूयाद्" इत्यर्थप्रतिपादकानि वाक्यानि मिथ्याकारसामाचारी - इति ममाग्रहः, तथा न → अमुकशब्दैरेव विरचितानि समुच्चरितानि वाक्यानि मिथ्याकारसामाचारी - इति ममाग्रहः । किन्तु कस्यामपि भाषायां कैश्चिदपि शब्दैर्युक्तानि वाक्यानि । मिथ्याकारसामाचारी भवन्ति । केवलं तत्र "मम दुष्कृतं मिथ्या भूयाद्" इत्यर्थः प्रतिपादित एष्टव्यः 1 इति ॥१३॥ के संप्रति निश्चयनयमतं प्रदर्शयति । कणेयो णिज्जरहेऊ मिच्छामिदुक्कडं इय पओगो । णिच्छयमिच्छाकारो तयट्ठसंपच्चयपउत्तो ॥१४॥ निश्चयनयो ब्रूते→ प्राकृतभाषायां "मिच्छा मि दुक्कडम्" इत्येवं क्रियमाणः शब्दप्रयोगो मिथ्याकारसामाचारी। न हि गुर्जरादिभाषाषु क्रियमाणः कोऽपि प्रयोगो मिथ्याकारसामाचारी । मिच्छा मि दुक्कडमित्यपि प्रयोगो यदा "मि" इत्यिक्षरस्य "च्छा" इत्यक्षरस्य "मि" इत्यक्षरस्य "दु" इत्यक्षरस्य "क" इत्यक्षरस्य "डं" इत्यक्षरस्य वक्ष्यमाणो योऽर्थस्तस्मिन्नर्थे उपयोगसहितः क्रियते, तदैव मिथ्याकारसामाचारी । प्रत्येकाक्षरस्य वक्ष्यमाणेषु अर्थेषूपयोगविहीनो मिच्छा मि दुक्कडमिति प्रयोगो न मिथ्याकारसामाचारी । तथा मिथ्या मे दुष्कृतं भूयादित्यादिरूपः संस्कृतादिभाषायां क्रियमाणः प्रयोगः शुभभावसहितोऽपि न मिथ्याकारसामाचारी । प्रत्येकाक्षरार्थोपयोगसमन्वितो मिच्छा मि दुक्कडमिति प्राकृतभाषायां क्रियमाणः प्रयोग एव मिथ्याकारसामाचारीति निष्कर्षः । अत्राक्षरार्थोपयोगवत्पदार्थोपयोगो वाक्यार्थोपयोगश्चापि ग्राह्यः । प्रत्येकाक्षरस्य प्रत्येकपदस्य वाक्यस्य चार्थोऽधुनैव प्रदर्शयिष्यते ॥१४॥ अधुना "मिच्छा मि दुक्कडं" इति प्रयोगे विद्यमानानां प्रत्येकाक्षराणामर्थं प्रतिपादयति । मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मि त्ति य मेराइठिओ दुति दुर्गच्छामि अप्पाणं ॥१५॥ । कत्ति कडं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छामिदुक्कडपयक्खरत्थो समासेणं ॥१६॥ ___ 'मिच्छा मि दुक्कडं' इति वाक्यस्यार्थस्तावदयं → मया संयमयोगेषु जिनाज्ञाविरुद्धाचरणरूपं यद् दुष्कृतं * कृतं। तन्मम दुष्कृतं मिथ्या निष्फलं भवतु - इति । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SSSSSSSSSSSSSSSSSSSSSSSSSS FGEHEEEEEEEEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०० Screen w eeeeeeeeeeeeeeee CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE GEEEE

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286